SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ द्वितीयो विधिविध्यरः। प्रमाणमितीष्टं भवताम्, अज्ञोदीरितत्वादेव च वचनत्वमस्य नास्ति, वाच्यार्थप्रतिपादनाभिसन्धिपूर्वकं हि तत् । काष्ठशब्दवदित्थं न घटते वेदवाक्यप्रामाण्यम्। युदुक्तं प्राक् को वा ह ज्ञवचनमेतदिति न ब्रूमः सर्ववक्तृवचनाप्रामाण्यमिति, किन्तर्हि? सर्वज्ञवीतरागायभावाद्न्थस्य सर्वभावस्वभावविषयस्य कर्तुप्रामाण्यं न तु वक्तुरनादिनिधनस्य वक्तृपरम्परागतस्य वचनस्य च, कचित्प्रामाण्यादित्यत्रोच्यते, आदि वक्तृवच्चोत्तरवक्तर्यपि धातुकमंत्रादिवद्वचनानाश्वासतुल्यतेत्यलमतिप्रसङ्गिन्या कथया। ___ अविवक्षितार्थाया नान्तरीयकत्वात् प्रकृतेः प्रयोगो जुहुयाच्छब्दस्येत्येतदपि न न्याय्यं कचिच्च सार्थकयोरेव स्वार्थाविविक्षा न्याय्या नानर्थकस्यैव, यथा नक्षत्रं दृष्ट्वा वाचो विसृजन्ति, कतरदेवदत्तस्य गृहम्? अदो यत्रासौ काक इति तथा तयोर्नार्थवत्त्वेन दृष्टयोस्तदविवक्षया सार्थकत्वं दृष्टम्, प्रयुक्तस्यानर्थकत्वाभावप्रसङ्गात्। ___ उपलक्षणादिप्रयोजनायां विशेषविवक्षायां किमनयाऽविवक्षविवक्षयेत्येतदयुक्तम्, विवक्षाविवक्षयोरनियमेन शब्दप्रवृत्तौ सत्यामप्रयोजनायाञ्चाविवक्षायामग्यायविवक्षाभावे विशेषहेतुर्वाच्यः। ___युक्ततरा तु तदविवक्षा, वक्ष्यमाणन्यायदर्शनात्, अर्थतत्त्वतन्त्रत्वात्तस्याः। एवं तावदोषान्तराभिधानमपि, अप्रत्यायकत्वमस्य वाक्यस्य, अप्रत्यवेक्षितार्थयाथातथ्योक्तेर्बालप्रलापवदनुपदेशत्वम्।
SR No.022387
Book TitleDwadasharnay Chakram
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherShantinagar Shwetambar Murtipujak Jain Sangh
Publication Year2010
Total Pages416
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy