________________
५८
द्वादशारनयचक्रे
-
त्वयैव समर्थितत्वादेवमेवास्तु, स्यादेवं यदि सापि चार्थस्थितिर्निर्दोषा स्यात् सापि चापक्षिप्तवाच्यार्थस्थितिरुक्तवत्।
एवं तावन्यायेन परीक्ष्यमाणमेतद्वाक्यं न युज्यते पुरुषतर्कलक्षणेन, यद्यपि पुरुषतर्कलक्षणं न्यायमतिलच्यापौरुषेयो नित्यो वेदाख्यः क्रियोपदेशः पुरुषगतरागादिदोषाऽऽशङ्काहेतुविनिर्मुक्तः प्रमाणं तथापप तद्वचनादेवास्मिंस्तु न्यायेऽतिलच्यमाने क्रियोपदेशवादोऽपि तत्त्ववादवदेव त्यक्तः स्यात्, तत्रापि यदृच्छाभ्युपगमात्। ___ अथ इदमापन्नं को वा तद्वेदाग्निहोत्रं जुहुयात् स्वर्गकाम इत्येतद्वाक्यं सार्थकं निरर्थकं वेति? बालप्रलापवत्, यथाहि बालैः अनियतक्रियाकारकैरसम्बद्धमुक्तं, बुद्धिपूर्वत्वाज्ज्ञातुमशक्यं, केनार्थेनार्थप्रत्यायनार्थमिदमिति, व्यवस्थापेतत्वात्, किं वाऽनेन ज्ञातेन? यदेतज्ज्ञा एवमुक्तवन्तोऽग्निहोत्रं जुहुयादिति वाक्यमव्यक्तम्, अव्यक्तज्ञाना एव हि ते पुरुषत्वादविद्यायोगाच्च दश दाडिमादिश्लोकवादिवत्।
विफलोऽयं प्रयासस्ते अनभ्युपगमात्, अथवा को वाऽऽह ज्ञवचनमेतदिति, ज्ञस्य प्रमाणभूतस्याभावाच्छब्दस्यैव च निर्दोषत्वादिति तन्न, यदि संशयादियोगान्न ज्ञः प्रमाणं तीदमझोक्तत्वादुन्मत्त वाक्यवदिति क्रियोपदेशसाफल्यवादः क गच्छतीति चिन्त्यताम्।
अथाऽऽचक्षीथाः काष्ठशब्दवत्सर्वमचेतनं तथाप्यचेतनत्वात् कुतोऽस्य प्रामाण्यमाकाशवत् कुतोऽस्य वचनम्? यच्छब्द आह तन्नः