________________
द्वितीयो विधिविध्यरः ।
विधिविहितस्य ह्यनुवदनमनुवाद इति तदत्र न घटते अग्निहोत्र हवनविधेयत्वादनुवादायोग्यता, अथ विधानं वाऽनुवादो वा यथाकथञ्चित् स्यात् ततः पुनरुक्तदोषाभाव एव स्यात्, इष्यते च पौनरुक्त्यं शब्दतोऽर्थतश्च, उक्तार्थशब्दार्थकथनमविशेषेण पुनरुक्तमन्यत्रानुवादादरादिभ्य इति पौनरुक्त्यभावादिदं जुहुयादिति पदमनुवादाक्षमं विधीयमानत्वादाख्यायमानपण्डितत्ववत् ।
५७
तथा जुहुयादित्येतदपि नानुवादोऽपूर्वोपदेशत्वादनुवादवैधर्म्याच्च तल्लक्षणाभावात् विहितमेव त्वनूद्यते विशेषविधानार्थं यथा पटुर्देवदत्तः पयसैनं भोजयेति । यत्र न विशेषो विधीयते मौलविधिरेव सः, एवं तर्हि विशेषविधानादनुवादोऽस्तु तद्वदिति चेत्तन्न, न चात्र कश्चित् जुहोतेः पुनर्वचनेन विशेषो जन्यते ततश्च प्राक्तनमेव सञ्जातम् । एवं यां तां गतिं गत्वा सर्वथाऽग्निहोत्रं जुहुयादि' त्यस्मिन् वाक्येऽग्निहोत्रकर्मण्येवान्तर्भावितहवने जुहुयाच्छब्दप्रकृत्यर्थे किमति - रिच्यते ? पौनरुक्त्यदोषव्यपेतो विधिलिङ् कर्त्तर्यास्ते, अग्निहोत्रं कुर्यात्, अग्निहोत्रं जुहुयादित्येतयोर्वाक्यार्थविकल्पयोरुक्तदोषत्वात् ।
अथोच्येत
विधिलिङ्प्रत्ययार्थेऽवश्यवाच्ये प्रकृतिपरव्यवस्थाया आवश्यके प्रकृत्युपादाने वरमासन्ना प्रकृतिरुपात्ता, अर्थः पुनरस्या न विवक्ष्यते गतार्थत्वादिति, एवं चेत्तर्हि वरं वरं सहायकं ददामि बुद्धेः, कर्तृप्रत्ययार्थसमर्था प्रत्यासन्नतराऽविवक्षितार्था कृञ्प्रकृतिः किं नोपात्ता वचनस्योपात्तार्थप्रत्यायनार्थत्वात् । अतोऽग्नि होत्रं कुर्यादित्येवास्तु ।