________________
द्वादशारनयचक्रे
समासः, न, न चात्राग्निशब्दस्य होत्रशब्दस्य वा प्राधान्यमस्ति, कुर्यात् जुहुयादिति तिङन्तस्य क्रियावाचिनः प्राधान्यात् । अपशब्दवायमस्मिन्नर्थे ।
त्यक्तजुहोतिकर्बर्थग्रहे तु निःक्रियाकर्तृत्वात् कुर्यादर्थाभावः । "जुहोतिप्रयोगासत्त्वञ्च, त्याज्यत्वात्, व्याधिवत्।।
क्रियानामस्ववृत्तित्यागोपादानाभ्यां धातुप्रातिपदिकभेदोऽपि न, पदभेद एव सः पदान्तरविषयत्वात्। ___एवञ्च श्रुतेर्याऽसौ प्रतिपत्तिस्तस्या अभावोऽन्यथाऽर्थाधिगतेः, स्वप्रत्युपेक्षानुमानेन च तत्त्यागात् कयर्थप्रतिपत्तिवशेन शब्दार्थावस्थापनात्तु पुरुषस्य ज्ञानमेव प्रमाणीकृतमतस्ते वादावसानं निग्रहस्थानम्, एष चेतरत्राप्यर्थव्याख्याने भवति।
एवं तर्हि यथाश्रुत्यग्निहोत्रबद्धवनमपि ग्रहीष्यते, अत्रोच्यते नन्वर्थद्वयविधानमशक्यमेकेन वाक्येनाग्निसम्प्रदानकस्य कर्मभूतस्य हवनस्य तद्विशिष्टस्य च कर्तृकत्वस्य।
नैव हवनं विधीयते किन्त्वग्निहोत्रशब्देन विहितं हवनमनूयते विध्यनुवादयोर्मिनलक्षणत्वात् प्राप्तमन्यते वाक्यान्तरेण, अप्राप्तञ्च विधीयत इत्यत्रोच्यते, नानुवादो हवनस्य युज्यते न हि प्राप्तिरस्ति हवनस्याविहितत्वात् । अस्ति प्राप्तिहवनस्य, अग्निहोत्रस्य हवनत्वात्, यदग्निहोत्रं हवनमेतदिति, पुनरुक्तं तर्खेवम्, एतच्च नानुवाद उन्मत्तवाक्यवत्।