________________
द्वितीयो विधिविध्यरः।
५५ एवमपि कर्तृप्रत्ययान्तकृञ्दर्शनेन जुहोत्यर्थत्यागोऽर्थभेदश्च, कर्तृविशिष्टक्रियासामान्यमात्रवाचित्वाभ्युपगमात्, जुहोतेश्व क्रियाविशेषत्वात्, जुहुयाच्छब्दोऽपि होत्रशब्दार्थं होत्रशब्दोऽपि जुहुयाच्छब्दार्थं ब्रवीतीति नामाख्यातयोः प्रत्येकं द्वयर्थवृत्तित्वादभेदश्चेत्येवं शब्दार्थसङ्करः प्रसिद्धिविरोधश्च जुहोत्यर्थत्यागवत्सर्वधात्वर्थविशेषत्यागस्ततश्च तत्त्यागापत्तिरपि विशेषाभावे निराश्रयस्य सामान्यस्याभावात्।
आसन्नश्रुताग्निहोत्रकर्त्तव्यत्वान्नेति चेन्न, आसन्नतरश्रुतजुहोत्यर्थत्यागात् पदान्तरार्थे कथं वर्तेत? ___परपदार्थविधानेऽपि च पदान्तरपरिश्रुतहोत्रमात्रवृत्तत्वाजुहुयादर्थमात्रमेवेति कुर्यादर्थोपादानम भेदकम्।
मात्रग्रहणासिद्धिः, अग्निपदविशिष्टसमासत्वादित्येतच्चायुक्तम्, तिप्रत्ययार्थैकीभूतप्रकृत्यर्थत्वात्, यथा प्रलम्बतेऽध्यागच्छतीति।
कुम्भकारवत् काण्डलाववत् समासत्वात् कुम्भकारवदेव विशिष्टार्थत्वमिति चेत्तदपि नोपपद्यते । अग्निसमासत्वात्, न ह्यस्त्यग्निशब्दस्य होत्रशब्देन तिङ्प्रत्ययार्थसाकाङ्क्षण समासः, तिङन्तेन ‘अस्तिक्षीरा' 'अनीतपिवता'दिषु समासदर्शनाददोष इति चेन्न परिगणितेभ्योऽन्यत्राभावात् तिङन्तप्रतिरूपकनिपातेषूपात्तत्वाच तेषाम्। ___सामर्थ्याभावाच समासानुपपत्तिः, 'समर्थः पदविधिः इत्यधिकारात् । असामर्थ्यश्च सापेक्षत्वात् । ननु प्रधानत्वाद्भवति १. पाणिनि २.१.१