SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ द्वादशारनयचक्रे आपद्येत तत एवं वचनव्यक्तिर्भवति अग्निहोत्राख्यं हवनं कुर्यात् घटवदिति। एतदयुक्तं दृष्टान्तवैषम्यादर्थभेदासिद्धेः, न हि किश्चिदग्निहोत्रं नाम घटवत् प्रसिद्धं यदनूयोच्येत, न हि साधर्येण यदग्निहोत्रसंज्ञकं हवनं तत्कुर्यादित्यग्निहोत्रहवनयोरैक्येन तद्विषयं करणमनुविधीयेत, नापि वैधhण हवनं यत्कुर्यादिति हवनक्रियामनूद्य तदग्निहोत्राख्यमित्यैक्येन विधानं युज्येत, परेणाग्निहोत्रस्य हवनस्य वाऽविहितत्वादत एव तूभयमप्यशक्यम्, विशेषणं विशेष्यं च, प्रधानमुपसर्जनश्च, विधिरनुवादश्च, शेषः शेषी च, उत्सर्गोऽपवादधान्यतरस्याप्यर्थाप्रतीतेः, यदि विशेष्येणैव विशेषणीयं हवनं कुर्यात्तच्चाग्निहोत्रसंज्ञकमिति, अग्निहोत्रं वा हवनमिति तच्च नैवं शक्यमप्रसिद्धार्थत्वात्। अनुवादविधिविषयत्वे वाक्यभेदापत्तेः। नापि घटादिकर्त्तव्यतेव काचिदग्निहोत्रकर्त्तव्यता नाम प्रोक्षणबहिरास्तरणाज्यप्रक्षेपायुपक्रमात्मिका मन्त्रपूर्वक्रिया क्रमवती प्रसिद्धा याऽग्निहोत्राख्यता हवनस्यातिदिश्येत, हवनाख्यता वाऽग्निहोत्रस्य। ___ अथ पुनरुच्येत नैव हवनं कुर्यादित्युच्यते किं तर्हि? अग्निहोत्रं कुर्यादित्याश्रीयते जुहुयादित्ययं कुर्यादर्थ एव, अग्निहोत्रशब्देन तु तद्विशेषभूतो जुहोतेरर्थोऽभिहित एव तस्मादग्निहोत्रं कुर्यादित्ययमर्थ इति।
SR No.022387
Book TitleDwadasharnay Chakram
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherShantinagar Shwetambar Murtipujak Jain Sangh
Publication Year2010
Total Pages416
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy