________________
द्वितीयो विधिविध्यरः।
विधानानन्तरश्चेतिकर्तव्यतावसरः तदुभयमलौकिकत्वादग्निहोत्रसामान्यस्याग्निष्टोमादिविशेषस्य द्रव्यमन्त्रदेवताऽग्नियमायात्मनवाप्रसिद्धरयुक्तम्।
यथा घटादिकर्त्तव्यतायां विहितायां घटं कुर्विति ततः पुनरिति कर्तव्यताक्रम एवम् मृत्पिण्डं चक्रमूर्धनि संस्थाप्य दण्डेन भ्रमयित्वा द्वाभ्यां पाणिभ्यां शिवकायाकारविशेषान् क्रमेण निवर्तयेरिति प्रसिद्धकर्त्तव्यताविधानोत्तरकालं प्रसिद्धेतिकर्तव्यताविधानं घटादिविषयमुपपन्नम्, प्रसिद्धार्थत्वान त्वग्निहोत्रकर्त्तव्यतायाः पशुवधादीति कर्तव्यतायाश्च प्रसिद्धिः, अप्रसिद्धार्थत्वादग्निहोत्रशब्दस्य, न तु घटवदग्निहोत्रशब्दः काश्चिदपि कर्त्तव्यतां ब्रवीति।
जुहुयादित्ययं तर्हि ब्रवीति हवनकर्त्तव्यतामिति, एवमपि तदवस्थम्, विविक्तार्थवाचित्वाभिमतानां शब्दानां पदार्थान्तरावृत्तेः, जुहोतेहि धातोरयं प्रत्यय उत्पन्नः स तत्कर्त्तव्यतां हित्वा पदान्तरकर्तव्यतायां कथं प्रवर्तेत?
अथ तदेव तदिति, एतत्तावदनयोरैकार्थ्यं प्रसिद्धिविरुद्धं, पौनरुक्त्यपरिहारार्थ जुहुयादित्येवास्तु किमग्निहोत्रमित्यनेन?
पदान्तरकर्तव्यतायां तावद्धवनं पदान्तरकर्त्तव्यतामपेक्षते वाक्यन्यायेन, भेदसंसर्गाभ्यां परस्पराकाझ्या पदान्तरार्थे वर्त्तते पदम्, यथा सब्रह्मचारिणा सहाधीत इत्युक्ते येन समानो ब्रह्मचारी तेन सब्रह्मचारिणा य एवाधीते तेनैव समान इत्याकासा भवति । ननु. यथा पदार्थे परिच्छिन्ने न पदार्थान्तरमपेक्ष्यते पदेन तथा घटवदग्निहोत्रशन्दोऽप्यर्थवत्त्वमपेक्षते न चेदेवं ततोऽग्निहोत्रशब्दः प्रमादाधीन