SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ ५२ द्वादशारनयचक्रे त्वनवस्थाने क्रियाविधाय्यपि शास्त्रं नावतिष्ठेत तस्यापि लोकतत्त्वान्वेषणात्मकत्वानतिवृत्तेप्रमाणादिति तत्प्राप्यपुण्याद्यभावः । यथाऽग्निहोत्रं जुहुयात् स्वर्गकाम' इति, इदं तु पुनः किं विधिरनुवादोऽर्थवादः? उच्यते, विधिः, अप्रसिद्धार्थविषयविधायित्वात्, अत्राप्रसिद्धमग्निसम्प्रदानं हवनं विधीयत इत्युपायस्यापूर्वत्वात्तदभिव्यङ्गयापूर्वाभावः, त्वन्मतादेवोक्तवत्। अतश्च तस्य विधेरसंव्यवहार्यत्वात्तद्विहितक्रियाफलसम्बन्धाभावः, आरोग्यार्थिडित्थभक्षणोक्तिवत्, एवं त्वदुक्तिक्रिये अशक्यप्राप्त्यनर्थे चेति सांख्यादिविवेकयन्नतुल्यत्वं तवापि। ___ अयोच्येत मा मंस्थाः सामयादितुल्यत्वमेतस्य, वैधात् कर्तव्यतां विधायेतिकर्तव्यताविधानात्, तद्यथा अग्निष्टोमादिसंस्थानविशेषैर्द्रव्यगुणदेवताकर्तृकर्मकालदेशादिविशेषैश्च 'वसन्ते ब्राह्मणो यजेत ग्रीष्मे राजन्यः शरदि वा यजेत वैश्यः, 'होलाको प्राज्ञ उद्धृषभयज्ञ उदीच्यैर्वायव्यं श्वेतमालभेत भूतिकामो वायुर्वै क्षेपिष्ठा देवता वायुमेव स्वेन भागधेयेनोपधावति स एवैनं भूति गमयती'त्यादि त्वया प्रतिपत्तव्यमिति शिष्यमनुशास्ति तत उत्तरकालमेवं प्रकारमेवाग्निहोत्रं नामकर्म भवति, विशेषविधानार्थप्रतिपत्तिबलेन च सुसिद्धा भविष्यति तस्य शिष्यता इतरार्थाविचारेणेति। ननु चैवमप्यग्निहोत्रादिविषयकर्त्तव्यताप्रतिपत्तिः प्रतिपत्तित्वाल्लौकिककर्त्तव्यताद्यर्थतत्त्वानुसृतेरेव भवितुमर्हति, अन्यथा नारिकेलद्वीपजातवृद्धस्य धेनुप्रतिपत्त्यभाववत्सा स्यात् कर्त्तव्यता
SR No.022387
Book TitleDwadasharnay Chakram
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherShantinagar Shwetambar Murtipujak Jain Sangh
Publication Year2010
Total Pages416
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy