________________
द्वितीयो विधिविध्यरः।
४५१ वस्तुतत्त्वपरिणामवदवैद्यौषधोपदेशव दग्निहोत्रं जुहुयात् स्वर्गकाम' इत्याद्युपदेशो बालकादिग्रहणवत्।
उपदेशादेव न ज्ञानयोग इति चेदयुक्तम्, उभयथाऽपि पौरुषेयत्वाद्भारतरामायणादिवदप्रामाण्यम्, अग्निहोत्राद्युपदेशस्याती न्द्रियार्थस्य प्रामाण्यवत् साङ्ख्याद्यतीन्द्रियार्थोपदेशप्रामाण्यं वा।
वानरमूलिकादिपरिज्ञानवत्तद्विषयं तज्ज्ञानं स्यात् सर्वोषधादिविषयैकपुरुषविज्ञानवदतीन्द्रियग्राह्यसर्वपदार्थविषयैकपुरुषविज्ञानाभ्युपगमो वाऽवश्यम्भावी, वेदवचनयोरन्यथाऽनुपपत्तेः।
उपदेशाप्रसिद्धिरपि चैवं भवतः, सर्वस्योपदेशस्य साङ्ख्यायुपदेशवल्लोकतत्त्वान्वेषणादृते सम्भवाभावात् । __अथ लोकतः तत्त्वान्वेषणपराणां तेषामुपदेशानां शक्यप्राप्तर्थोपदेशसाफल्ये शक्ये ते कः पराभ्युपगमे प्रद्वेषः? लोकतत्त्वान्वेषणपरत्वानतिवृत्तौ तर्कशास्त्रविचारविज्ञानसाफल्यं वा।
उपदेशाप्रसिद्धौ परीक्षकत्वहानिः, पदवाक्यप्रमाणविषयाव्यभिचारज्ञानार्थत्वात् परीक्षायाः । स च त्वन्मतेनैवैवं नावतिष्ठते, लोकतत्त्वान्वेषणानात्मकत्वात्।
स्यान्मतं पदवाक्यप्रमाणानामपि सामान्यविशेषादिघटादिजगत्तत्त्वविचारवदव्यवस्थैव, प्रमाणानामपि प्रमाणान्तराधिगम्यत्वेऽनवस्थादोषप्रसङ्गादित्यत्रोच्यते प्रमाणानवस्था तावन्नास्ति चन्द्रार्कमणिप्रदीपादिवत् स्वपरावभासित्वात् प्रमाणानाम्, तस्यापि