________________
द्वितीयो विधिविध्यरः।
अयमपि तु विप्रतिषेधादयुक्तः।
यदुक्तं त्वया सर्वमज्ञानानुविद्धमेव ज्ञानम्, न च ज्ञानाज्ञानयोः कश्चिद्विशेषोऽस्ति संशयविपर्ययानध्यवसायनिर्णयानामवबोधैकार्थत्वान्न लोकतत्त्वं ज्ञातुं शक्यम्, विफलश्च विवेकयत्नः शास्त्रेष्विति, तद्यदि लोकतत्त्वमज्ञेयमेव सर्वशास्त्रविहितलोकतत्त्वव्यावर्त्तनं तप्रित्ययमेव, अशक्यप्राप्त्यफलत्वाभ्याम्, प्रतिषेध्यस्वरूपज्ञानविषयत्वाच्च।
प्रतिषेध्यं ज्ञायते तैस्तस्य बहुधा कल्पितस्यानुपपत्तेरित्येतदपि विप्रतिषिद्धम्, तेषामपि मतानां लोकतत्त्वान्तःपातिनां मिथ्याविधिकत्वं ज्ञातमज्ञातं वा स्यादिति तुल्यविकल्पत्वात् ज्ञाताज्ञातयोश्च तदोषाविमोक्षात् । यदप्युक्तमनर्थको विवेकयत्नः शास्त्रेष्विति, तत्रापि विप्रतिषेधात्तज्ज्ञानमफलमेव किमिति शास्त्रविहितार्थप्रतिषेधप्रयासः?।
क्रियोपदेशन्याय्यत्वाभ्युपगमोऽपि चैवं विघटेत, संसेव्यविषयस्वतत्त्वानुपातिपरिणामविज्ञानविरहितत्वात्, अज्ञातवैविध्य