________________
प्रथमः विधिभङ्गारः
यथा चाहुः ‘अस्त्यर्थः सर्वशब्दानामि'ति, सत्तामात्रमर्थः सर्वशब्दानाम्, कोऽप्यस्यार्थोऽस्ति, न निरर्थकः शब्दः, स पुनरर्थो न निरूपयितुं शक्योऽयमयमिति, एतत्प्रत्याय्यलक्षणम्, तत्र दृष्टान्तोऽपूर्वदेवतास्वर्गशब्दानामर्था यथा तेषामत्यन्तापरदृष्टत्वादीदृशोऽपूर्वः स्वर्गो देवता वेशीति न प्रतिपद्यामहे निरूपणेन तथा गवादिशब्दानामप्यर्थैः तत्समैरेव भवितव्यम्, न हि गमनागमनगर्जनादिष्वर्थव्यवस्था विशेषरूपेति कश्चिदस्त्यर्थ इत्येतावत्प्रतिपत्तव्यम् । एतस्मिन्नेव नयभङ्गे सर्वाणि पदानि वाक्यार्थः, तद्यथा, "देवदत्त! गामभ्याज शुक्लां दण्डेने"त्यत्र परस्पराऽविवेकेन सङ्कीर्णरूपाणि पदान्येकार्थान्यन्वयव्यतिरेकाभ्यामनुगम्यमानं सम्पिण्डितमिवार्थं ब्रूयुर्न पृथग्भूतम्। तस्मात् सर्वाणि पदानि वाक्यार्थः।
व्यवहारदेशत्वाच्चास्य द्रव्यार्थता 'लौकिकसम उपचारप्रायो विस्तृतार्थो व्यवहार" इति वचनात्, द्रव्यशब्दो द्रोरवयवो द्रव्यमिति व्युत्पादितः, द्रुः गतिर्यात्रा तस्या अवयव एकदेशः, एकदेशोऽसमस्तवृत्तिरन्यथावृत्तित्वात्।
सा पुनरस्या विधिवृत्तेरेकदेशवृत्तिता लोकत एव, मृद्धटादिसामान्यविशेषाणामर्थकलापानां परित्याज्यत्वात्, तस्मादन्यदवस्तु, अलौकिकत्वात् खकुसुमवत्, व्यतिरेके घटवदिति दिक् ।
निबन्धनञ्चास्य 'आया भंते नाणे अन्नाणे, गोयमा आयापुण सिय नाणे सिय अन्नाणे नाणे पुण नियमं आया" इति
विधिभङ्गारो नाम प्रथमो द्रव्यार्थभेदः समाप्तः। १. तत्त्वा.अ.१सू.३५ भाष्ये
२. भग. १२-श-३-१०