________________
४८
द्वादशारनयचक्रे
इन्द्रियाण्यपि च तन्मयान्येवाचेतनानि ।
तत्करणत्वात्तैः प्रकाशितं स्थूलमज्ञं प्रकाश्यत्वात् प्रतिपद्येत ज्ञः, प्रदीपप्रकाशितघटवत् ।
नच परमाण्वादि सूक्ष्मं शुद्धचेतनस्वरूपपुरुषादि वा स्यादज्ञानादिप्रतिबद्धम्, तस्यापि चेन्द्रियसन्निकृष्टद्रव्यव्यतिरिक्तासाधारणस्वरूपादर्शनादिदमिदमिति न निरूपणोपायोऽस्ति प्रत्येकं समुदाये वा तद्दृष्टानुपपत्तेः, अपूर्वत्वात् ।
.
स्यान्मतमनुभवितुर्बाह्यविषयमिदमिदमिति निरूपणं मा भूद्यदि न भवति स्वसंवेदनं किन्त्वान्तरं सुखदुःखादिषु किं निरूपणं न भवतीति? उच्यते स्वसंवेदनेनाशनाद्यभ्यवहृतं परिणमयन सञ्श्वेतयतीति व्यभिचारान्न भवति । तथा सुप्तादीनां चलनकण्डूयनस्फुरणादिक्रियाः कुर्वतामसञ्श्चेतयमानानामेव ताः क्रियाः दृश्यन्ते, इत्थं कल्पिताकल्पिततथाभूतप्रत्ययानुपपत्तेरज्ञानानुविद्धमेव सर्वं ज्ञानमिति परिच्छेदार्थश्व प्रमाणव्यापारः ।
स्यान्मतमज्ञानप्रतिबद्धमित्यज्ञानशब्दोच्चारणादेव ज्ञानाभ्युपगमः कृतो भवति, प्रतिषेधस्याब्राह्मणवदन्यत्र प्रसिद्धविषयत्वात्, अन्यथा प्रतिषेधानुपपत्तेः, स्ववचनविरोधाच्च, तथापि न चाज्ञानमित्युक्तिबिरोधः, राधकपूर्णकमातृव्यपदेशवत्, विशेष्यप्राधान्यादनवधारणात्, तथा ज्ञानाज्ञानाभ्यां तदेव विशिष्यते वस्त्विति नोक्तिबिरोधो ज्ञानाज्ञानयोरविशेषात् संशयविपर्ययानध्यवसायनिर्णयानामवगमावबोधार्थत्वात् अवगमस्य बोधाबोधपर्यायत्वात्तस्मादेतस्मिन्नयभङ्गेऽज्ञातमेव शब्दस्यार्थः ।