SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ प्रथमः विधिभङ्गारः ४७ प्रकृतिबहुधानक प्रधानाव्यक्तादिपर्यायाख्यं यद्वस्तु तदतीन्द्रियत्वादप्रत्यक्षम्, यदिन्द्रियविषयं रूपादि न तत्परमार्थसदित्याद्यशेषं विशेषैकान्तवादिमते यथाभागं तद्विपर्ययेणात्र यद्यत्र घटते तत्तथाऽनुसृत्य योज्यं भेदाभेदसंवृतिपरमार्थस्थानव्यवस्थापनया। एवं तावद्विशेषाविशेषकान्तवादयोः स्ववचनव्यपेक्षाक्षेपदुस्तरविरोधत्वाल्लौकिकप्रत्यक्षविलक्षणं प्रत्यक्षं कल्पितमपि न युक्तमित्युक्तम्, नानात्वैकान्तवादेऽपि सामान्यविशेषयोः ‘आत्मेन्द्रियमनोऽर्थसन्निकर्षाद्यनिष्पद्यते तदन्यत्', आत्मा मनसा मन इन्द्रियेणेन्द्रियमर्थेनेति चतुष्टयत्रयद्वयसन्निकर्षादुत्पद्यमानं प्रत्यक्षमित्येतदपि द्रव्यादिविनिर्मूलत्वात् किमात्मादि? इति न प्रत्यक्षम्। ___द्रव्यगुणभवनविशेषकारणकार्याणां सदसदनेकान्तस्वतत्त्वानामन्यतमैकान्तकल्पनात् कल्पनात्मकत्वम्, ततः कल्पनात्मकत्वा -दिभ्यो भ्रान्त्यादिवदप्रत्यक्षम्। ___ अतः सर्वप्रमाणाविरोधितत्त्वव्यवहारसमवस्थलोकपरिग्रहवदेव सामान्यविशेषौ घटादिविषयौ नान्यथेति विधिः। एष च वेदनादिभिरपि लोकप्रमाणकोऽज्ञानिकवाद उपजीव्यत इति, किश्चिन्न ज्ञायते को वैतद्वेद किं वाऽनेन ज्ञातेनेत्यशक्यप्राप्त्यफलत्वाभ्यां वस्तुतत्त्वविचारो न युज्यते, क्रियाया एवोपदेशोऽतः श्रेयानिति लेशेनाभ्युपगतत्वात्तस्यैवायमन्यभेदः । सर्वमिदमज्ञानप्रतिबद्धमेव जगत् पृथिव्यादि, रूपादिमत्त्वाद्धटादिवत्। १. वैशेषिकसूत्राणि ३.१.१८
SR No.022387
Book TitleDwadasharnay Chakram
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherShantinagar Shwetambar Murtipujak Jain Sangh
Publication Year2010
Total Pages416
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy