________________
द्वादशारनयचक्रे
सर्वसर्वात्मकतायां श्रोत्रादिवृत्तिः प्रत्यक्षमिति ब्रुवतो वस्तुनो निर्विकल्पत्वाद्विभागाभावात् किं श्रोत्रं यत्त्वगादिभ्यो विभक्तम् ? किमश्रोत्रं यच्छ्रोत्राद्विभक्तम् ? क आदिः कोऽनादिः ? का वृत्तिः ? किं प्रति कतमोऽन्यो भावोऽन्यमपेक्ष्य तं प्रत्यक्षमित्युच्यते किमक्षमिन्द्रियं यद्विषयव्यतिरिक्तं परस्परव्यतिरिक्तं वा ? किमनक्षमिति ।
४६
त्वन्मतेनैव च प्रत्यक्षलक्षणायोगः, यदुक्तं लोकशास्त्रे 'वहिर्वस्तुस्वतत्त्वसाक्षात्प्रतिपत्तिः प्रत्यक्षं' इति, तत्तु प्रत्यक्षं त्वन्मतवन्न घटते, निर्विकल्पत्वासिद्धेः, शब्दादिविभागविकल्पविषयत्वात्, अविभागरूपञ्च सर्वसर्वात्मकं वस्तुस्वतत्त्वम्, तद्विषयञ्च तन्न भवति ततश्च कल्पनात्मकम्, कल्पनात्मकत्वादिभ्यो भ्रान्त्यादिवत् ।
सञ्चितालम्बनस्थाने उक्तवदिह तद्विपरीतं समुदायपरमार्थत्वम्, नीलादिसंवृतिसत्त्वं, संवृतिसन्तो नीलादय ऐन्द्रिया न परमार्थ सत्समुदायः, तस्यारूपाद्यात्मकत्वात्, तदेकदेशभूतस्य रूपादेरपरमार्थसतोऽप्यविभागावस्थस्यैकस्यासर्वस्यालम्बनस्यासश्चितवदस्मिन् वादे लोकलोकोत्तरव्यवहारप्रत्यक्षाभिमतेषु घटादिषु नीलादिषु चाभावान्न प्रत्यक्षम् ।
तथासम्भावनेऽपि च रूपादेर्नैव तत्साम्यावस्थानं सम्भाव्यते ।
सम्भाव्यमानेऽपि च तस्मिन्नव्यक्तेऽतीन्द्रियत्वादालम्बनत्वानुपपत्तेश्चक्षुरादिविज्ञानानां रूपादिसङ्घात आलम्बनमिति तेषां प्रत्येकं परमार्थसत्त्वाभावान्न विषयता, तस्माद्योनिबीज