________________
प्रथमः विधिभङ्गारः
सन्तानादिति चेदेतच्चायुक्तं, सोऽपि ह्येवमेव।
अथोच्येत बाह्यवस्तुप्रतिपत्तिजनितः सर्व एवैष विरोधसंक्लेशः, एवन्तु सर्वदोषविनिर्मुक्तमिदं कल्पनान्तरमाश्रयामहे विज्ञान -मात्रकमिदं त्रिभुवनम्, न पुनरेतस्यां कल्पनायामेवंविधः संक्लेशोऽस्ति यदिदं संवृतिसदिदं परमार्थसदिदमैन्द्रियमिदमतीन्द्रियं इत्यादि विकल्प्यमानं विज्ञानाद्वयतिरिक्तमर्थजातमिच्छतां स्यात्, न तु तत्ततो भिन्नमस्ति, तस्मादनको विचार इति।
अत्रोच्यते ननु देवानां प्रिय! तन्मतवदेव विज्ञानवादविध्वंसनार्थोऽयमारम्भः, तिष्ठतु तावद्वाह्यार्थाभावे विज्ञेयत्वाभावात्तस्य विज्ञानत्वाभावः, ततश्च प्रमेयत्वाभावात् प्रमाणत्वाभावः प्रत्यक्षस्येति, इदं तावद्विज्ञानं हि लोके प्रत्यक्षादि, तत्र निर्धाय कतमत्तव विज्ञानमात्रम् । ब्रूयास्त्वं प्रत्यक्षविज्ञानमात्रमिति, तन तस्यैवमवस्थत्वात्, नानुमानविज्ञानमात्रं, तस्यापि तत्पूर्वकत्वात् तदसिद्धावसिद्धिरतन्त्वपटवत्। ___. एव तर्हि संशयभ्रान्त्यादिकल्पना विज्ञानमात्रमस्तु तदपि न, अत एव, नानध्यवसायमात्रम्, अग्रहात्मकत्वात्तस्य, न हि तदत्यन्तासंचेतितं नाम ज्ञानमस्ति, तस्मात् प्रमाणप्रमाणाभासज्ञानेष्वनन्तर्भावात् कतमद्विज्ञानमात्रमिदं सर्वमित्यलमति विकाशिन्या संकथया इति प्रत्यक्षलक्षणस्य सर्वथा दूषितत्वात् तत्कल्पितं प्रत्यक्षं न घटते, स्ववचनव्यपेक्षाक्षेपदुस्तरविरोधत्वात्, अनयैव च दिशाऽविशेषैकान्तवादिनोऽपि ।