SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ द्वादशारनयचक्रे इतरथापि चैषां समुदाय एव न स्यात् प्रत्येकमभूतत्वाद्वन्ध्यापुत्रवत् । ४४ बौद्धरबोक्ता त्रयातिरिक्तसंस्कृतक्षणिकानित्यत्वाभ्युपगमेन सहासङ्गतिरस्य, यदुक्तं वः सिद्धान्ते 'बुद्धिबोध्यं त्रयादन्यत् संस्कृतं क्षणिकञ्च तत्' इति प्रत्येकत्व प्राप्तानन्तरमेव विनष्टत्वात् कः प्रत्येकं समुदायः, को वा देशतोऽत्यन्तं रूपादिभेदेन यावदनभिलाप्यतयाऽव स्थानं भिद्यमानानां प्रत्येकं भावः ? । किं प्रत्येकत्वप्राप्तिरपि चैवं नैव निर्मूलत एव परमाणूनामसत्त्वाद्वन्ध्यापुत्रवत् । सहोत्पादाददोष इति चेन्न, तुल्यत्वात्, भूतस्य सहता, अभूतस्य वेति विकल्पद्वयेऽपि यौगपद्यासिद्धेः । अभूतस्य सहतेत्ययुक्तो विकल्पः खपुष्पस्येवातो भूतस्य सहतेति ब्रूमः । त्वमेवैतद्विकल्पद्वयं " ' तदवस्थाः प्रत्येकसमुदिताः कारणं परमाणवः' इति ब्रुवाणश्चिन्तय क एवमाहेति किं नः एतेन, यो ब्रवीति स ब्रवीतु यदि भूतस्य कुतः सहता ? उक्तवत्, तथा तेषामसत्त्वापत्तेः प्रतिलब्धसहत्वस्य चोत्पाद उच्यते त्वया तत्तु सहत्वमप्रतिलब्धमसत्त्वापत्तेरेव । अथाभूतस्योत्पादो यौगपद्येनेष्यते साऽपि सहता बो नोपपद्यते, बन्ध्यापुत्रसमुदायोऽपि स्यादित्यनिष्टप्रसङ्गात् अभूतत्वाद - स्थितत्वादणुसमुदायवत् । अणुसमुदायोऽपि न स्याद भूतत्वादस्थितत्वाद्वन्ध्यापुत्रसमुदायवत् ।
SR No.022387
Book TitleDwadasharnay Chakram
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherShantinagar Shwetambar Murtipujak Jain Sangh
Publication Year2010
Total Pages416
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy