________________
प्रथमः विधिभङ्गारः
४३
वाहकसमुदाये वहनशक्तिवत्, वैधhणान्धपती प्रत्येकादर्शनवैलक्षण्यं न।
नन्वेवमभ्युपगतनिराकरणफलैवेयं प्रत्यक्षव्यवस्था, असश्चित परमाण्वालम्बनाश्रयणात्, तच्चाभ्युपगतं निरुणद्धि प्रत्येकं दर्शनशक्तिख्यापनात्।
ननु प्रत्येकशक्तानामेव सञ्चये तच्छन्त्यभिव्यक्तिरित्युक्तम्, सत्यमुक्तम्, एतदयुक्तम् जनकानन्यथात्वात्, न हि ज्ञानस्य जनकेभ्यः परमाणुभ्योऽन्यः सञ्चयोऽस्तीति प्रागेतद्विस्तरेण प्रतिपादितम्। __अथवा युक्तैषा कल्पना त्वयाऽऽश्रयि, स्वलक्षणविषयं प्रत्यक्षमित्येतत्प्रतिज्ञातसंवादित्वात्तनिर्वोदुकामेन । प्रत्येकं ते समुदिताः कारणमित्येतद्धि प्रत्यक्षविषयसमर्थवचनमादिप्रतिज्ञातवत्, यस्मात् स्वलक्षणविषयत्वप्रतिसमाधानेन निर्वहणमेतत्, प्रत्यवेक्षितव्यार्थोपायसाध्यसाधनसम्बन्धो हि वक्तव्यः, अहो साधु! किन्तु पुनरत्र देवानां प्रिय ! भवति दोषजातम्, किं तत्? अनेकार्थजन्यस्वार्थसामान्यगोचरनिरसनम् । पूर्वापरानुमतनिगमनपरिग्रहेण वाऽऽदिप्रतिज्ञातार्थनिरसनम्।
__ अनेकान्तववयोरन्तयोरवस्थातव्यं तैः परमाणुभिरेकतः प्रत्येकसमुदितैः प्रत्येकतायाञ्च।
प्रत्येकाशक्यशक्तो हि समुदाय इत्युभयथा स्याद्वादिनो यद्वदन्ति तदेव तवाप्यापन्नम्, साक्षात्तदुक्ततत्त्वत्वात्, अनेकैकत्वभृशगत्यर्थसमुदायपरिग्रहाच्च।