________________
४२
द्वादशारनयचक्रे
वचनयोरेकाकारार्थत्वादसावपि पक्षोऽभ्युपगतस्त्वया, एवमपि न त आलम्बनमतीन्द्रियत्वाद्गगनवत्।
अभ्युपगम्याप्येवंविधालम्बनताश्चान्यथाविद्यमानाः परमाणवः समूहाभासस्यापि ज्ञानस्य कारणं भवन्तीति धूमोऽग्निप्रत्यक्षज्ञानालम्बनं स्यात्, तथाविद्यमानत्वेऽन्याभासस्यापि ज्ञानस्य कारणी भवनात्, त्वदुक्तप्रत्यक्षालम्बनवत्, यथा त्वदुक्तस्य प्रत्यक्षस्यालम्बनं परमाणवोऽन्यथाविद्यमानाः समूहाभासज्ञानस्य कारणं भवन्ति तथा धूमोऽपि तत्साधर्म्यात्तज्जनितज्ञानालम्बनस्याग्नेः प्रत्यक्षालम्बनतामात्मनः साधयति, धूमनिमित्ताग्निज्ञानं वा प्रत्यक्षं स्यात्, अन्यथाविद्यमानत्वेऽन्याभासविज्ञानजनकालम्बनत्वात्, त्वदुक्तप्रत्यक्षवत्, तस्मादेव हेतोश्चक्षुराद्यप्यालम्बनं स्यादेवमयमतिप्रसङ्गदोष एवंवादिनो यदि कारणमालम्बनं विज्ञानस्यान्याभासस्यापीष्टम्।
न च ग्राह्यस्य नीलादेविषयस्य चक्षुरादिविज्ञानस्य नीलादिपरमाणव आलम्बनम्, अन्यथा विद्यमानत्वाच्चक्षुरादिवत् । तदसाधारणविषयत्वाद्वा रसज्ञानवत् ।
ननु च प्रत्येकमेव ते समुदिताः कारणमित्युक्तमेव, तथासन्त एव समुदिताः परमाणव आलम्बनम्, तदवस्थेषु ज्ञानोत्पादनशक्त्यभिव्यक्तेः, सा हि प्रत्येकं विद्यमाना नाभिव्यज्यते, चक्षुरादिपरमाणूनामिव, न ह्येक इन्द्रियपरमाणुर्विषयपरमाणुर्वा विज्ञानमुत्पादयितुमलम्, न तत्समुदायः, प्रज्ञप्तिसत्त्वात्, तस्मात् प्रत्येककारणतायामणूनां समुदाये दर्शनशक्तिव्यक्तिः, शिबिका