SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ प्रथमः बिधिभङ्गारः यथैव हि परमाणवो ज्ञानस्याकारसन्निवेशविशिष्टाः सामान्यत आभासन्ते तथा घटादिज्ञानेष्वप्याकारविशेषेण समुदितास्त एवाभासन्ते, नान्यो घटो नामास्ति यस्तथा भासेत, तथास्थेषु रूपादिष्वेव घट इति बुद्धिः प्रवर्त्तते प्रज्ञप्ति, एवं तथास्थेष्वेव परमाणुषु नीलादिरूपबुद्धिः प्रवर्त्तते प्रज्ञप्तिश्वेति । ४१ अथोच्येत नीलादिसमुदाये नीलादिद्रव्यसदाकारो विद्यते, तदण्वात्मकत्वात्तेषाम्, अणूनां द्रव्यसत्त्वात्तत्प्रत्यक्षत्वं न्याय्यम्, न तु घटाद्याकारोऽतत्परमाणुत्वात्, तथाऽसत्त्वात् । एतच्च तुल्यमुभयत्राविशेषात्, यथैव तस्मिन् रूपादिसमुदाये घटाद्यनाकारता, तदनणुत्वात् तथाऽसत्त्वात्, एवं रूपाद्याकारस्याना कारता, अनन्तरोक्तहेतोः सञ्चितस्यैन्द्रियकत्वात्तस्यैवालम्बनत्वात् तदनणुत्वात्, तथाऽसत्त्वात्, अन्यथाऽविषयत्वादनालम्बनत्वादत एवाप्रत्यक्षत्वात् । पक्षान्तरापत्तिश्चैवं यदाभासं तेषु ज्ञानमुत्पद्यते तथा नालम्बनमित्येवं पक्षं परित्यज्य यथा ते विद्यन्ते तथा नालम्बनमित्ययुं पक्ष आश्रितो भवति, अस्मिन्नपि च पक्षे त्वयैव वसुबन्धुं प्रत्युक्ता ये दोषास्ते तवापि स्युः यस्मात्त्वयाऽपि चायं पक्षोऽङ्गीकृत एव, यथाच प्रत्यक्षोत्पत्तिबीजसञ्जननार्थमुक्तं प्रत्येकच ते समुदिता: कारणमिति, तत्रानेकार्थजन्यत्वात् स्वार्थे सामान्यगोचरमित्यस्य व्याख्यायां पुनर्वसुबन्धुं दूषयितुकामेन विकल्पितः स एवार्थः । किम् ? यथा विद्यमाना अन्याभासस्यापि विज्ञानस्य कारणं भवन्ति तथा प्रत्यक्षस्यालम्बनं रूपादय इति इति पूर्वपक्षत्वेनैतयोश्च
SR No.022387
Book TitleDwadasharnay Chakram
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherShantinagar Shwetambar Murtipujak Jain Sangh
Publication Year2010
Total Pages416
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy