________________
४०
द्वादशारनयचक्रे
त्वसत्सत्प्रतिपत्तिरेव, तस्मात्तस्य ज्ञानस्याप्रत्यक्षत्वमलातचक्रादिज्ञानवत् तेन त्वया प्रतिज्ञातं तत्प्रत्यक्षत्वं निराक्रियते, तन्निराकरणादनुमानविरोधः ।
प्रत्यक्षत्वप्रसङ्गः,
ननु प्रत्यक्षनिराकरणात् प्रत्यक्षविरोधोऽयं कथमनुमानविरोध इति, अत्रोच्यते त्वन्मतेन सपक्षधर्मस्य विपक्षस्योक्तानुमानेन निराकरणान्निर्विकल्पकप्रत्यक्षत्वाभावात् कतमत्तत्प्रत्यक्षं येन निराक्रियेत? यद्वा निराकुर्यात्? अतोऽनुमानविरोध एवायम् । किञ्चान्यत्, घटसंख्योत्क्षेपणसत्ताघटत्वाद्याकारज्ञानानामपि कथमिति चेदुच्यते यथा चात्र भवन्मतेन समानासमानानेकार्थजन्येन्द्रियस्वार्थादुत्पद्यते तदपि च तैमिरिकवदप्रमाणम्, यथा द्विचन्द्रदर्शनं तथा समानानेकवर्णमणिसमूहजन्येन्द्रियस्वार्थादुत्पद्यमानमपि तैमिरिकवदप्रमाणं स्यात् समानानेकार्थादतथाभूतार्थान्मण्यादिसङ्घाताज्जन्यं हि तत्, यदि समानासमानानेकार्थातथाभूतार्थात् प्रज्ञप्तिसतः परमार्थसदाकारो लभ्यते त एव हि परमार्थसन्तः परमाणवो नीलादित्वेनाभासन्त इति तद्विषयं ज्ञानं प्रत्यक्षमिष्टम्, तदा निराकृतेभ्यः सत्पक्षत्वेन घटसङ्ख्याद्याकारेभ्यः समानासमानानेकार्थजन्येन्द्रियस्वार्थेभ्यः प्रत्यक्षज्ञानजनकार्थसधर्मभ्यः परमार्थसदाकारो लप्स्यते नीलादिसङ्घातवदिति घटः संयुक्तो वियुक्तः परोऽपरः स्पन्दत इत्यादिज्ञानं प्रत्यक्षं, स च तद्विषयः प्रत्यक्षः स्यात्, संवृतिसदालम्बनत्वान्नीलादिज्ञानवत्, नीलादिज्ञानं तदर्थश्च न प्रत्यक्षे वा स्यातां, संवृतिसत्त्वाद्धटादिज्ञानार्थवत्, त एव हि परमाणवो य एव घटादित्वेनाभासन्ते य एव नीलादित्वेनाभासन्त इत्येवमुभयोस्तुल्ये जनकत्वे तत्कुत एतन्नीलाद्याभासज्ञानं प्रत्यक्षं न घटाद्याभासमिति?