________________
प्रथमः विधिभङ्गारः
सञ्चयनहेतुप्रत्ययोऽप्यनधिपतिरिन्द्रियाविषयत्वात्, तस्मात् सर्वथा तुल्यमुभयं कारकत्वेन । तथा स्वार्थे सामान्यगोचरत्वादनुमानवदप्रत्यक्षमिति।
अनुमानं वा प्रत्यक्षं स्यात्, अनेकार्थजन्यत्वात्, स्वार्थे सामान्यगोचरत्वादिति।
द्वयमप्येतदेकमेव, एकलक्षणत्वादिति प्रत्यक्षमेवैकं प्रमाणं तदुभयं स्यादनेकार्थजन्यसामान्यैकगोचरत्वात्, चक्षुरादिद्वारजन्मप्रत्यक्षभेदप्रत्यक्षवत्, अनुमानमेव वा स्यात्, तत एव कारणाद्धूमकृतकत्वाद्यनुमिताग्न्यनित्यादिज्ञानानुमानवत् ।
अनेकार्थजन्यत्वाच्च स्वार्थसामान्यगोचरतायां यथाभासं तेषु ज्ञानमुत्पद्यते, तथा त आलम्बनं रूपादयः, प्रत्येकं परमाणुरूपस्य बुद्धावसनिवेशात् समुदयकृतं तनिर्भासतयाऽऽलम्बनम्।
एवञ्च सति प्रत्यक्षार्थ एवं ज्ञायते, तद्यथा अर्थसन्निकर्षादक्षं प्रति यदुत्पद्यते तज्ज्ञानं प्रत्यक्षमिति ज्ञानमर्थेन विशेष्यते।
न तदुपपद्यते प्रत्यक्षम्, तस्यार्थस्याभावात्, न च सञ्चयोऽर्थः, संवृतिसत्त्वात् संवृतिसत्त्वमद्रव्यत्वात्, वान्ध्येयवत्, अतो न साधूत्पत्तिप्रत्यय इष्यते इति सोऽर्थो न विशेषणेन विशेष्यः। तस्माज्ज्ञानत्वप्रत्यक्षत्वाभ्युपगमहानिः।
चक्षुरादिषु ज्ञानेष्वतः स्वनिर्भासव्यतिरिक्तप्रमेयाभावः, ततश्च तैमिरिकस्य केशोन्दुकमशकमक्षिकाद्विचन्द्रादिदर्शनवत् सा