SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ ३८ द्वादशारनयचक्रे यावदेकाकारपरिकल्पनादिति, उत्तरन्त्वत्राप्यनेकार्थविषयकप्रत्ययत्वात् – तेषु परमाणुषु प्रत्येकमतीन्द्रियेषु समुदितेष्वसमुदितेषु वा प्रत्ययाभावात्तत्समूहोऽनेकार्थविषयः स एवैकः प्रत्ययः, समूहालम्बनतदाभासज्ञानोत्पत्त्यभ्युपगमात्, अर्थभेदविषयज्ञानाभ्युपगमे च 'विजानाति न विज्ञान" मित्यादि विरुद्धयेत, तस्मादेकप्रत्ययोऽनेकार्थविषय एकार्थरूपस्तत एव सामान्यरूपस्तदतद्विषयतया तदतद्भूतसामान्यगोचरः ततश्चास्वलक्षणो विषयः, अतएव संवृतिसञ्चयस्तस्मात् कल्पनात्मको निर्देश्यश्चेत्येवमाद्यस्माभिः प्राक् प्रक्रान्तं तत्सुतराम्, शेषं त्वयैव भावित मनेकार्थजन्यत्वात् स्वार्थे सामान्यगोचर' मिति परिहारं ब्रुवता। भवदभिमतप्रत्यक्षस्याप्रत्यक्षत्वसाधने च द्वे अनेकार्थजन्यत्वात् स्वार्थे सामान्यगोचरत्वादिति लेशेनोनीते त्वयैव। तदभिमतप्रत्यक्षमप्रत्यक्षम्, अनेकार्थजन्यत्वात्, अनुमानवत्, अनुमानमपि हि पक्षधर्माद्यनेकार्थजन्यम्, ज्ञापकः स हेतुरिति चेन, अत्रापि तुल्यत्वात् कारकादप्यनेकस्मादर्थात् साध्यसाधनधर्मान्वयैकान्तवतो जायते। ___असञ्चितानेकार्थजन्यत्वादनुमाने नैतत्साधर्म्यमुपपद्यते, अत्रोच्यते, ननु धूमादिरपि सञ्चय एव गृहीतोऽग्यादिकमणव इव गमयतीति कारकत्वाव्यभिचार उभयत्र । __ हेतुप्रत्ययोऽसौ धूमोऽनुमाने, कल्पनाया हेतोः, निर्विकल्पं हि ज्ञानमधिपतिप्रत्ययं प्रत्यक्षमतो वैधो दृष्टान्त इति चेदथ कथं साधनानधिपतिधूमः? हेतुप्रत्ययस्यार्थस्येन्द्रियाविषयत्वादिति चेन्ननु १. चतुश्शतक - २६८
SR No.022387
Book TitleDwadasharnay Chakram
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherShantinagar Shwetambar Murtipujak Jain Sangh
Publication Year2010
Total Pages416
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy