________________
प्रथमः विधिभङ्गारः
तदर्थमुपसंहृत्यान्ते साधनम् 'अत इदं नैव प्रत्यक्षम्, अतथाभूतार्थाध्यारोपात्मकत्वात्, भ्रान्तिवत्, अथवा तत एव हेतोः संवृतिसज्ज्ञानवंदप्रत्यक्षम्', तद्व्याख्या यथा गोपालेत्यादिना दृष्टान्तं समर्थ्य तथा संवृतिसतीत्यादिना दान्तिकसमर्थनम् । संवृतिसल्लक्षणे ज्ञापकमाह 'यस्मिन् भिन्न' इति श्लोकः।
यस्मिन् घटे भिन्ने कपालशकलशर्करादिभावेन घटाभिमताद्वस्तुनोऽन्येष्वप्यपोहेषुकपालादिषु न घटबुद्धिरस्ति, तदग्रहे तद्बुद्धयभावात् अङ्गुल्यभावे मुष्टिबुद्धिवत्, अतोऽङ्गुलिव्यतिरेकेण मुष्टयभाववत् कपालादिव्यतिरेकेण घटाभाव इति संवृतिसन् घटः, एवं क्रियासम्भवे क्रिययाऽपोढे । यत्रापि क्रिययाऽपोहो न सम्भवति तत्रापि धियाऽपोहेऽन्येषां रूपादीनां घटस्य समुदायान तद्बुद्धिरस्ति, रूपादिसमुदायस्य च परमाणुरूपाद्यपोहे न तद्बुद्धिरस्तीति वर्त्तते दृष्टान्तोऽम्बुवत्, एकस्मिन्नपि जलबिन्दौ जलबुद्धिदर्शनात्, रूपादिषु पुनर्बुद्धयाऽपोढेषु न तोयबुद्धिरस्तीत्येतत्संवृतिसतो लक्षणम् । अथवा यस्मिन् घटे भिन्नेऽवयवशो न तद्बुद्धिर्भवति तद्धटवत्संवृतिसत्, यत्र चाम्बुबुद्धयाऽर्थान्तरापोहे न तद्बुद्धिरर्थान्तरनिवृत्तिरूपस्य वस्तुनः स्वरूपाभावादग्निवाय्वादिनिवृत्तिमात्रं व्यवहारप्रसिद्धाम्बुवत्तदपि संवृतिसत्, ..परमार्थसदन्यथा, एतद्विपरीतलक्षणम्, स्वत एव विविक्तरूपं यद्विद्यते रूपं रस इत्यादि तत्परमार्थसत् प्रत्यक्षगोचरमिति' । एतदपि परमार्थसदित्यभिमतं संवृतिसल्लक्षणानतिवृत्तेरसदेव यथोक्तविधिना । यथा रज्ज्वां सर्प इति ज्ञानं, तददृष्टौ तत्रापि सर्पवद्रज्जुविभ्रम इत्यप्रत्यक्षं नीलादिविषयं चक्षुरादिविज्ञानं शाक्यपुत्रीयं भ्रान्तिवदिति।