________________
३६
द्वादशारनयचक्रे
लक्षणकायत्वात्, एवमणुष्वपि तथा, तस्मान्न स्वार्थे सामान्यगोचरं ज्ञानमिति।
यदपि चोक्तमनेकद्रव्योत्पाद्यत्वात्तत्स्वायतने सामान्यगोचरमित्युच्यते, न तु भिन्नेष्वभेदकल्पनादिति, साऽपि त्वदिष्टा नोपपद्यते, न हि तदनेकद्रव्योत्पाद्यम्, किन्तु सञ्चयात्, न च सञ्चयः सामान्यम्, ततो न स रूपादिभ्यो भेदेन कश्चिदस्ति, अत एव न प्रत्ययस्यालम्बनं युज्यते, अभूतत्वाद्वन्ध्यापुत्रवत्।
अनालम्बनत्वाच्चाभासार्थोऽपि न तत्रास्ति, वन्ध्यापुत्रत्वानाभासवत्, स्वाभासं हि यस्य ज्ञानेन स्वाभावावभासः, अस्वत्वादनात्मकत्वात् कुत आभासविज्ञापनम्?
एवं तर्हि स्वे तु परमाणवः आत्मानस्ते विषयतां यान्तु नेत्युच्यते, ते नाभासमुत्पादयितुमलमतीन्द्रियत्वादतीन्द्रियत्वं निराभासत्वाद्विषयवदिति प्रत्यक्षज्ञानं नोत्पद्यते निरालम्बनत्वात्, खपुष्पवत्।
अतः प्रत्यक्षस्याभावे स्ववचनव्यपेक्षाक्षेपदुस्तरविरोधप्रस्तुतेश्व कल्पनापोढं प्रत्यक्षमित्येतल्लक्षणमनर्थकं स्यात्, तस्मिन्नभ्युपेतेऽपि तु सञ्चितालम्बनप्रत्ययत्वेनैवास्य प्रत्यक्षता सिद्धयति, त्वन्मतेनैव तदाभासं, कल्पनात्मकत्वात्।
उक्ता च कल्पनात्मकता 'तदुभयमपि भ्रान्तिज्ञानात्मकत्वात् भ्रान्तिः संज्ञासङ्ख्यासंस्थानवर्णान्यथाकल्पनात्, मृगतृष्णिकाप्रत्ययवविचन्द्रप्रत्ययवदलातचक्रप्रत्ययवत् कामलोपहतचक्षुषो नीलरूपपीतप्रत्ययवदिति।