________________
प्रथमः विधिभङ्गारः
तस्मिन्नेव सामान्ये स्वविषये स्वार्थे प्रत्यक्षं ज्ञानमुत्पद्यत इति चेत्तत एव सामान्यमेव स्वविषयः, स्वलक्षणं नास्त्यतो लक्षणद्वयं नास्ति, एकमेवानुमानं प्रमाणं स्यात्, ततश्च प्रमेयप्रमाणद्वित्वावधारणकल्पना व्यर्था, प्रमाणयोर्वा विषयसङ्करः प्राप्तः।
प्रत्यक्षमपि वा परपरिकल्पितमनुमानभेद एव स्यात्, अनेकार्थजनितसामान्यगोचररूपादिप्रकारपरिग्रहात् । त्वयैवोक्तं हि तत्रानेकार्थजन्यत्वात् स्वार्थे सामान्यगोचरमिति । धूमबलाकालिङ्गजनितज्ञानवत्, एतस्मादेव हेतोरस्वलक्षणविषयत्वञ्चोभयत्र।
अथवोभयत्रेति स्वलक्षणे सामान्यलक्षणे चास्वलक्षणविषयत्वम्, अनेकैकीभावात्, समुदायवत्, सामान्यमपि न स्वलक्षणमत एवानन्तरोक्तसमुदायवत् । सामान्यास्वलक्षणत्वं सिद्धं साध्यत इति चेन, स्वार्थ एव सामान्यगोचरमिति वचनात् स्वार्थत्वेनाभ्युपगतत्वात्। ____ अवश्यश्चैतदेवमभ्युपगन्तव्यं यतश्शमीशाखापत्रसङ्घाताविशेषदर्शनोदाहरणेन च स्फुटमेव दर्शितमप्रत्यक्षत्वमनुमानत्वमप्रमाणत्वमस्वलक्षणविषयत्वं विषयसङ्कर इत्येवमादिदोषजातम्, अनेकैकत्वापत्तिसामान्यगोचरस्वलक्षण एवार्थः प्रत्यक्षस्येत्येषा भवत आशंसा चेन, आरात्परान्तमध्यवर्णप्रमाणसंस्थानविविक्तवृत्त्यवस्थपत्रविशेषस्वलक्षणसामान्यात्मकत्वात् ।
ननूक्तमनेकैकत्वापत्तिसामान्यगोचरमिति तन्न, यस्मान्न च सङ्घातः कश्चिदस्ति, न च परिणामान्तरम्, तेषामनारब्धस्व