________________
द्वादशारनयचक्रे
अर्थविषयशब्दौ हि लक्षणार्थावेव, तद्विस्मृत्य भ्रान्तेन नेन्द्रियग्राह्यस्वार्थसामान्यभेदकल्पनापरिहारो युज्यते वक्तुम्, प्रत्यक्षव्याख्याविषयत्वात् स्वार्थस्वलक्षणस्वविषयशब्दानाम्।
मा मंस्था नैतदेवं भवतीति, उक्तं हि प्रमाणसंख्यानिरूपणे त्वयैव 'प्रत्यक्षमनुमानञ्च प्रमाणे' इत्यादि प्रमाणद्वित्वं नियम्यते प्रमेय द्वित्वात् परिमेयद्वित्वनियतप्रस्थतुलादिपरिमाणद्वित्ववत्, लक्षणद्वयाद्यद्यन्यत् प्रमेयं स्यात्तदपेक्षया प्रमाणान्तरं स्यात्, नहि स्वसामान्य लक्षणाभ्यामन्यत् प्रमेयमस्ति, प्रत्यक्षानुमानाभ्यामग्रहणात् खरविषाणवत्।
स्यान्मतं तत्रैव विषयद्वये विकल्पसमुच्चयाङ्गाङ्गिभावैः प्रत्यक्षानुमानागमादीनां प्रमाणानां वृत्तिर्भविष्यतीति तन्न भवति यस्मात् स्वलक्षणविषयनियतं प्रत्यक्षं सामान्यलक्षणविषयनियतमनुमानमित्युक्तम्, कथं पुनर्लक्षणशब्दोऽर्थपर्यायः? अयते गम्यत इत्यर्थः, तथा लक्ष्यत इति लक्षणं तच्च वस्तुस्वभावः, स्वरूपमर्थः प्रमेयमिति पर्यायाः । तत्पुनर्द्विरूपं द्वाभ्यां प्रमाणाभ्यां परिच्छेद्यत्वात्, प्रमेयाधिगमनिमित्तं हि प्रमाणमिति, न च प्रमाणयोर्विषयसङ्करः।
अधिगम्यस्य द्वित्वाल्लक्षणशब्दोऽर्थपर्यायवाची नेन्द्रियग्राह्य इति स्थिते प्रत्यक्षानुमानयोः स्वरूपाभावः स्ववचनविरोधश्च दोषाः स्वार्थे सामान्यगोचरमिति ब्रुवत इति स्थितम् । एवमवस्थिते सामान्यगोचरव्यावृत्तार्थेन भवितव्यम्, ततः स्वार्थे सामान्यगोचरमितयेतद्विरुद्धयते । न हि तादृशस्वार्थेऽस्य सामान्यस्य सम्बन्धोऽ स्ति, नापि स्वार्थे सामान्यस्वार्थसम्बन्ध इति ।