________________
प्रथमः विधिभङ्गारः
अनेकार्थजन्यत्वात् स्वार्थे सामान्यगोचरमित्यनेकद्रव्योत्पाद्यत्वात्तत् स्वायतने सामान्यगोचरमुच्यते न तु तद्भिन्नेष्वभेदकल्पनात्, तेषु पृथक्पृथग्ग्रहणाभावादिति।
यथाहि शमीशाखापत्रेषु ज्ञानमन्तादिमध्याविवेकेनोत्पद्यते, एवं प्रत्यक्षमपि।
स्यान्मतं तद्व्यतिरेकेण पत्रे पत्रे समुदाये च यथा ज्ञानं तथा प्रत्यक्षमपि स्यादित्येतचायुक्तम्, न च सङ्घातः कश्चिदेकोऽस्ति, तेषामनारब्धलक्षणकायत्वात्, न हि समुदायो वैशेषिककल्पितकायद्रव्यवत् पृथगस्ति, नापि परिणामान्तरमापन्नम्, तेषां क्षणिकत्वादारम्भनिष्ठाकालभेदावस्थानाभावादेवमणुष्वपि ।
अयमसमाधिरेव, अस्यार्थस्य जरत्कुटीरवदारोहणाक्षमत्वादत् अङ्गीकृतार्थविनाशित्वात्, शब्दकृतकत्वाभिव्यक्तिस्थापनार्थप्रवृत्तवैशेषिकवत्, कुतस्तत्साधर्म्यमिति चेदुच्यते, अविषयतां प्रतिज्ञाय तदतद्विषयतया तदतद्भूतसामान्यगोचरोपसंहारात्।
नन्वत एव न तत्प्रत्यक्षं स्वार्थे सामान्यगोचरत्वादनुमानवत्, अनुमानमपि वा न, स्वार्थे सामान्यगोचरमिति कुमारब्रह्मचारिपितृवचनवचैतत्।
स्वार्थ इति च त्वया प्रमेयमुच्यते, सामान्यतो वस्तुस्वलक्षणं स्वार्थ इति, तथा सामान्यलक्षणमिति लिङ्गगम्यं सर्वम्, अस्वार्थविशिष्टे – स्वविषये – एकस्मिन्नेव रूपादिप्रकारे सामान्यगोचरमिति, सामान्यविषयश्च स्वार्थे ज्ञानमिति च विस्पर्धितमेतम्,