________________
द्वादशारनयचक्रे
परमाणवस्तत्समूहवेति स्वलक्षणसामान्यविषयज्ञानोत्पत्तिः, उक्तहेतुवदेतदपि भेदाभेदात्मकम्।
ननु कदाचिच्छब्दःकालान्तरवचनः, तस्मिन्नैव हि वस्तुनि कदाचित्कालान्तरे ज्ञानमेकाकारमुत्पद्यते कदाचिदनेकाकारं ज्ञानस्यैवाकारवत्त्वात्तन्न, एककाल एवोभयरूपत्वात्, स्यात्तत् तत्, परमाणुद्रव्यसमूहाभेदात्, स्यान तत् तत्, रूपादिपरिणामभेदात्, ग्रहणापदेशविशिष्टार्थत्वादेकानेकात्मकं तद्वस्तु, अनेकवर्णमणिरूपवत्, एकपुरुषपितूपुत्रादिवद्वा।
अतोऽनपेक्षितस्वाभ्युपगममनेकान्तदूषणमापद्यते, अविभावि तैवमर्थ्यपूर्वाभ्युपगमत्वाद्वोन्मुग्धभ्रान्तोन्मत्तादिवत्, अनपेक्षितस्वाभ्युपगमानेकान्तदूषणत्वात् कस्य वयं विशेष्यायमेवोन्मुग्धो भ्रान्त उन्मत्तो वेति दोषं ब्रूमः? न विशेषदोषः कस्यचिदपि।
प्रागभिहितसम्बन्धागतकल्पनात्मकत्वापादनचोद्यदूषणमनुक्त्वा तदभ्युपगमेन परिहारोक्तिरायतनस्वलक्षणं प्रत्येते स्वलक्षणविषया न द्रव्यस्वलक्षणं प्रतीति दोषं च लपित्वा प्रतिष्ठापितवानसि।
एष तु विशेषोऽज्ञानत्वप्रसङ्गस्तयथास्फुटतरक इत्यादि यावत्कुतः प्रत्यक्षत्वमित्येतदुपदर्शितम्।
योऽपि चैकाकारेत्यादिचोद्यप्रत्युच्चारणमेतद्यावत्सश्चितालम्बनतायाम्।