________________
प्रथमः विधिभङ्गारः
यदपि च बुद्धेनोक्तं द्वयं प्रतीत्य चक्षुः प्रतीत्य रूपाणि च प्रतीत्य चक्षुर्विज्ञानं मनःप्रतीत्य धर्मांधोत्पद्यते मनोविज्ञानमिति, तद्विरुध्यते, बुद्धयादेरपि चेन्द्रियकत्वमतीन्द्रियत्वाद्रूपवत्, रूपं वा न चक्षुर्ग्राह्यं स्यादतीन्द्रियत्वाद्बुद्ध्यादिवत् । नन्वतीन्द्रियत्वं चक्षुर्ग्राह्यत्वश्च परस्परतो विरुध्येतेति तन्मा मंस्थाः, भवतोऽनिष्टापादनपरत्वात्, भवद्भुद्धिनिवर्त्तनफलत्वाच्चास्य प्रयोगस्येति । अथापि यश्चात्र विरोधः सम्भाव्येत स तुल्यः परमाण्वैन्द्रियकत्वेन।
चक्षुः प्रतीत्य रूपाणि च प्रतीत्य चक्षुर्विज्ञानमुत्पद्यत इति चातीन्द्रियत्वादनुमानविरोधः, उक्तभावनावत्स्ववचनविरोधोऽपि ।
वादपरमेश्वरसंश्रयश्चैवम्।
न च नस्तेन विरोधः, तस्य लोकनाथत्वात्, स हीनः विलुप्यमानस्य लोकतत्त्वस्य त्राता, सर्ववादभेदयथार्थानां लोकसंवादेनोपग्राहयित्वा पालनात्।
कथं संश्रय इति चेत्? अनेकात्मकरूपायतनाभ्युपगमात् ।
अत्र चैकरूपायतनाधारतया त्वयाप्यनेकान्तवादोऽभ्युपगत एव, तदाधारतया हि तत्रेत्यधिकरणवाचिप्रत्ययान्तेन तत्रशब्देनाव्यतिरेकं रूपायतनमेवोक्तं तस्यैवारूपरूपता पुनर्दर्शिता, कदाचिदेकेन द्रव्येण कदाचिदनेकेन ज्ञानमुत्पाद्यते इति ब्रुवता । एवञ्च तस्यैकस्यैवैकताऽनेकता च त्वयैवोक्ता तथाऽविभक्ततत्त्वेन ज्ञानोत्पत्तेः । दृश्यते हि तदेव रूपायतनं पश्यत एकमनेकञ्च