________________
३०
द्वादशारनयचक्रे
तयुज्यते? तथा रूपविज्ञानकाय इति कथं? कथश्च इति पश्यतः तस्यामेकप्रकारावच्छेदः? अविभागसमवस्थसमूहात्मकत्वात्, मणिसमूहप्रभानुविद्धवर्णसंस्थानवत्।
एकस्य च द्रव्यस्य कदाचिदग्रहणादेकेन द्रव्येण कथं चक्षुविज्ञानमुत्पाद्यते? तस्मात् किमेतद्रुद्धवचनं बुद्धवचनमिति चिन्त्यताम् । रसनानास्वादितरसाज्ञानवच्चक्षुषाऽगृहीतेषु चक्षुर्विज्ञानं नास्ति।
एकद्रव्यज्ञानोत्पादे तु सञ्चितालम्बनकल्पना निरर्थिकैवेति तदभ्युपगमविरोधः।
तत्प्रकारावच्छेदानवच्छेदानेकप्रकारभिन्नत्वमित्येतान्यपि ज्ञानानि न भवितुमर्हन्ति, रूपायतनस्य सञ्चितगतेरेव, नरसिंहवत् ।
नरसिंहानेकप्रकारगतिरपि हि नरवसिंहत्वसञ्चययोः पूर्वं भेदेन दर्शनादभेदकल्पनात्मिकाऽभेदगतिरिति युक्ता, न तथा असञ्चये तु तद्रव्येष्वणुषु, असश्चितस्यादर्शनात् कुत एव तद्व्यवच्छेदादि सम्भाव्येत, एवं तावदेकेन द्रव्येणेत्ययुक्तम्।
यदपि चोक्तमनेकेन द्रव्येण कदाचिज्ज्ञानमुत्पाद्यत इत्यस्मादनेकेनेति वचनात् तस्यानेकद्रव्यसंवृतिसत्त्वात् सामान्यता, सामान्यत्वादसत्कल्पनं तत्, तद्विषयाः पञ्चविज्ञानकाया असत्कल्पनविषयत्वादनुमानतदाभासज्ञानवदप्रत्यक्षमप्रमाणं वा, दूरान्मणिसमूहदर्शनवद्वान स्वलक्षणविषयाः प्रसक्ताः।