________________
द्वादशभङ्गस्यान्तरम्
कल्पनामात्रत्वस्य प्रतिपादितत्वादिति, एतदप्य युक्तम्, जागरितव्यतिरिक्तस्वप्नोदाहरणादेव विज्ञानमात्रत्वव्यावर्त्तनात् ।
३९१
यदि तन्मात्रं किं स्वप्नस्य जागरणाद्विशेषणं घटते? उभयोरप्यभावतुल्यत्वात् खपुष्पस्य वन्ध्यासुतादिव, प्रतिपाद्यमत्यपेक्षया इति चेन्न, उभयोरप्यभावतुल्यत्वात् ।
खपुष्पव्युदसनेन च स्वप्नसिंहदर्शनवदिति वचनं घटते, स्वप्नदृष्टान्तव्याख्याने न च वृथाभयहर्षादिविशेषणमवृथाभयहर्षादिना बिना ननु भवितुमर्हति, विज्ञानविषया चास्तिता ननु स्थितैव, ततश्व सर्वं निःस्वभावमित्येतन्मिथ्या, निर्भेदञ्च नास्तित्वं नास्त्येव, कुतश्चित्सतो वस्तुनो विशेष्य सदेव शक्यं वक्तुं नास्तीति न शून्यत्वं सर्वस्य सत्त्वमेव तत्तथा, स्वप्नविज्ञानसिंहादेरपि नास्तित्व मन्यास्तित्वं साधयति ।
,
अथोच्येत विज्ञानास्तित्वमपि कः प्रतिपद्यते ? कल्पनामात्रत्वात्, विज्ञानाद्धि विज्ञानम्, तद्विज्ञेयाभावे कुत: ? स्वप्ने तत्कारणविज्ञेयस्याभावाद्विबुद्धेऽप्येवमेव ।
एवमपि विज्ञानविज्ञेयाविज्ञानाविज्ञेयज्ञानवचनविशेषणभेदाभ्युपगमात् सद्वाद एवाभ्युपगतोऽत्र त्वया, नो चेदभावाविशेषात्तूष्णीम्भावस्ते समाश्रयणीयः स्यात्, तथाऽविज्ञानाभावादिषु च नञः का गतिः ? किं प्रागादिविशेषेण नास्तीति ? उताविशेषेणैवेति? तत्र यदि विशेषेण नास्तीत्युच्यते प्राक्पश्चादितरेतरा
d