________________
द्वादशभङ्गस्यान्तरम्
एतदपि पूर्ववदेवैकान्तत्वादयुक्तम्, सम्भविविकल्पानुपपत्तेः, एवं सर्वं निःस्वभावमित्येवं ब्रुवतस्तव विज्ञानवचसोरपि सर्वान्तःपातित्वानिःस्वभावत्वेऽप्रत्यायनप्रसङ्गात् परप्रत्यायनमयुक्तम्, विज्ञानवचसोः निश्चितपक्षादित्वेन अभूतत्वादुन्मत्तालापविज्ञानवत्, अथ मा भूदेष दोष इति सस्वभावे विज्ञानवचसी अभ्युपगच्छसि ज्ञानवचनस्वभावत्वाभ्युपगमेनाभ्युपगमविरोधः, इदानीं सस्वभावत्वाभ्युपगमादिति स्ववचनविरोधश्च।
एवञ्च घटायपि सत्, व्यवहारवृत्तत्वात्, तद्वाक्यवत्, उभयविरोधादिविकल्पतस्तच्छून्यत्वे तु प्रत्यक्षादिविरोधाः, लोकविरोधस्तु सर्वलोकमवमत्य प्रवृत्तत्वात्।
सर्वशून्यवादगतपक्षधर्मायभावाञ्च न साध्यः, विज्ञानाभ्युपगमाञ्च पुरुष एवेदं सर्वं चतुरवस्थामात्रभेदमभिन्नमस्तीत्यभ्युपगतं भवति सतो विज्ञानलक्षणत्वात् तस्य च सर्वत्वात् सर्वमेव चेत् विज्ञानमात्रं स च पुरुष एव ज्ञः, तन्मयश्चेदमिति । ननु विज्ञानशब्देनोत्प्रेक्षामात्रमुच्यते, नार्थवत्त्वं विज्ञानस्य, स्वप्नमुदाहरद्भिः