________________
३९२
द्वादशारनयचक्रे -सामर्थ्यासंयोगेभ्यः ततो ननु निर्वृत्ताध्वस्ततत्समर्थबहिः सम्बन्धास्तित्वमेव घटादेः प्रसज्यते।
अथोच्येत नैवास्तीत्यविशेष्य वन्ध्यापुत्रादिवदुच्यते, अथ कथं पुनर्वन्ध्यापुत्रनास्तित्वमपि? यदि न विषयो, निर्वृत्त्यादिसत्यागभावादिस्वभावेषु न संभवेत् । सम्भवति तु स्वयं भवितृत्वेन तत्र चेतनस्यानायनन्तकर्मपरिवर्तानुभाव्यनाद्यनन्तभवेषु स्वजात्यपरित्यागेनेतरद्रव्यवदन्यथाभवतो मनुष्यस्त्रीवन्ध्यात्वाभ्यां प्रत्यावृत्त्य जन्मान्तरे मनुष्यस्त्रीत्वोत्पत्तौ पुत्रवत्त्वे द्रव्यार्थाभेदाद्वन्ध्या पुत्रवती जायते।
अनन्तरभववन्ध्याभावानतिरिक्तत्वात् सकर्मा चेतनोsवन्ध्यात्वेऽपि तद्वत् बालकुमारवद्वा एक एव, अनाद्यनन्त कर्मप्रबन्धात्मकत्वात्।
वन्ध्याशरीरगतानां पुद्गलानामुत्सृष्टानां मृत्त्वव्रीह्यादित्वसम्भूतौ वन्ध्यया स्त्रिया पुंसावाऽऽहारितानां पुत्रत्वेनोत्पत्तावपि वन्ध्यापुत्रास्तित्वमविरुद्धम्, तदन्योऽन्यानुगतिमन्तरेण तदभावात्तत्तस्यैव तदेव वा, शरीरारम्भवत्, तस्मात् सर्वमिदं सर्वस्वभावमशून्यमुत्पत्तिस्थितिविनाशसहितमेकमनेकात्मकं स्वपरोभयतोऽस्त्ये -वेति प्रतिपत्तव्यम्, उक्तन्यायात्। ____ अथ कथं स्वपरोभयभाव इति अत्र ब्रूमः संसिद्धिसंयुक्त्यनुत्पादसामग्रीदर्शनसदादर्शनेभ्यो हेतुभ्यः, संसिद्धिस्तदात्मभेदैकीभावेन सद्भावः, दीर्घत्वं दीर्घ एव, अपरायत्तत्वात्, तद्धि