________________
द्वादशोऽरः नियमनियमनयः
३७७
ग्राहकाकारपरिप्लवाद्ाह्याकारभ्रान्तेः शून्यगृहवत् प्रवेष्ट्रस्थातृनिर्गन्तृ -कल्पोत्पादादिरहितं कल्पयितुं न्याय्यम्।
स च स्वभावश्चिन्त्यमानो न स्वतः नापि परतो न द्वाभ्याम्, नाप्यहेतुतः, अथ कथं स्वपरोभयाभावः? ब्रूमः, असिद्धययुक्त्यनुत्पादसामग्रीदर्शनादर्शनेभ्यः, असिद्धेस्तावत् दीर्घहस्वयोर्मध्यमानामिकाङ्गुल्योः दीर्घाया दीर्घस्वभावो न तावदीर्घ स्वात्मन्यस्ति परायत्तत्वात्तस्यास्तस्य तद्धि अनामिकाहस्वत्वायत्तं यत् स्वात्मन्यसिद्धं तत् कथं परतः सिद्धयेत्?
यदि हि स्वविषयमेवैतत् स्यात्, अनामिकाहस्वत्वं न स्यात्, अपरापेक्षत्वात् साऽपि दीर्धेव स्यात्, मध्यमावत्, न तु भवति तस्या हस्वत्वेष्टेः, अथाह्रस्वैवेष्यते ततश्च मध्यमादीर्घत्वाभावः, तामेवापेक्ष्य दीर्घति व्यपदेशात्, तस्माच्च दीर्घत्वप्रतिपक्षस्यानामिका -हस्वत्वस्याभावः, तयोः परस्परायत्तत्वात्, कदा मध्यमा दीर्घा सेत्स्यति? यदाऽनामिकाह्रस्वा भवेत् अनामिका ह्रस्वा च मध्यमादीर्घत्वसिद्धौ सेत्स्यति इति इतरेतराश्रयत्वादसिद्धिः।।
न ह्रस्वेऽपि दीर्घत्वं तत्प्रतिद्वन्द्रित्वात्तयोस्तमः प्रकाशवत् जीवितमरणवचैकत्र कुतो भावः? तस्य वाऽदीर्घत्वेऽभावात्मकत्वात् कुतो दीर्घत्वमागतमन्यत्? ह्रस्वत्वाभावाच नास्ति दीर्घत्वम्, दीर्घत्वस्य ह्रस्वे वृत्ते तदवष्टब्धे ह्रस्वत्वस्यानवकाशात्, तथापि पुनः हस्वप्रतियोगिनो दीर्घत्वस्याभावान सिद्धयति दीर्घत्वम्, स्वात्मनि' परत्र वा वृत्त्यसम्भवात्।