________________
द्वादशारनयचक्रे
न द्वये, उक्तन्यायात्, प्रतिद्वन्द्वित्वाद्वा, उभयत्र दीर्घत्ववृत्तिरेषा च किं हस्वे वर्त्तमाने दीर्घत्वे दीर्घं भवति ? उत दीर्घे एव वर्त्तमाने, यदि ह्रस्वे वर्त्तमानं दीर्घत्वमुभयत्र भावं लभते ततो हस्वे वर्त्तमानं दीर्घत्वं दीर्घस्य दीर्घतां दीर्घ इति बुद्धिञ्च कथं कुर्यात् ? ततोऽन्यत्र वृत्तत्वात्, ह्रस्वादीर्घत्वप्रत्ययवत् ।
३७८
अथ दीर्घ एव दीर्घत्ववृत्तिरिष्यते ततो दीर्घे एव वर्त्तमानं दीर्घत्वं करोति तत्प्रत्ययश्चाधत्ते इति हस्वेन दीर्घेतरेणेतरेतरयोगार्थं कल्पितेन नार्थः न च तत्प्रत्ययेन, स्वाधारबलादेव तत्सिद्धेः, अथ तथापि तत्र दीर्घे दीर्घतां न करोति न तत्प्रत्ययश्चादधातीति मन्यसे ततो ह्रस्वे कथं दीर्घत्वं तद्बुद्धिञ्च कुर्यात्, ततोऽन्यत्र वृत्तत्वात्, ह्रस्वादीर्घत्वप्रत्ययवत्, अथोच्येत हस्वे दीर्घतां नैव करोति दीर्घप्रत्ययमपि नादधातीति एतदपि नोपपद्यते ह्रस्वदीर्घयोः परस्परापेक्षसिद्धेर्लोके दृष्टत्वात्, तद्यथा सिद्धार्थकेत्यादि मेरुपर्यन्तानामितरेतरापेक्षह्रस्वदीर्घाणां दृष्टानां ह्रस्वे वृत्तस्य दीर्घत्वस्य दीर्घाकरणदीर्घप्रत्ययाना -धानाभ्युपगमेऽत्यन्तदीर्घाभाव एव प्रसक्तः नैव दीर्घं भवेत् दीर्घाकरणात्, ह्रस्वत्ववत्, तत्प्रत्ययोऽपि न भवेत्, दीर्घप्रत्ययानाधानात्, ह्रस्वप्रत्ययवदिति, एवं हस्वत्वेऽपि ।
-
उभयोभयपक्षोऽपि प्रत्येकमभिहितैर्दोषैर्न विमुच्यते, प्रत्येकमसिद्धयोरपेक्षायामप्यसिद्धेः, विप्रतिषेधाच्च, एवं तावन्न स्वतो न परतो नोभयतश्च ह्रस्वदीर्घे सिद्ध्यतः, यद्यहेतुतः, खपुष्पमपि स्यादिति ।