________________
३७६
द्वादशारनयचक्रे
तथैव पुरुषद्रव्यं स्कन्धमात्रे न समानीयते यतः स्कन्धा अपि रूपम् वेदना विज्ञानं संज्ञा संस्कार इति, रूपमपि विषयेन्द्रियविज्ञप्त्याख्यमरूपमपि विज्ञानात्मत्वात्, एवं पश्चापि, आत्मापि विज्ञानात्मकः ते एव रूपादयः स्कन्धा इत्यनात्मा च, तस्मात् सिद्धार्थीयस्थित्यनतिक्रमात् उदाहितवस्तूनामयुक्तं पठितमेकान्तेन राशिवदित्यादि । तत्त एवाप्राज्ञाः स्कन्धव्यतिरिक्ता। व्यतिरिक्तात्मानमात्मानं स्कन्धा एवेत्याहुः । अप्राज्ञानां तेषामेव च भेदवादो यथा रूपादिसमुदायमानं तत्त्वमिति समुदायो रूपादिविशेषाणां सामान्यमभ्युपगतं, तथेहापि पश्चस्कन्धसमुदायः सामान्यमेवेति निराकार्यः सैद्धार्थीयैः तदुभयमिच्छद्भिरात्मग्राहोऽस्त्विति।
औदासीन्याच्च तत्त्वेषु मिथ्याभिनिवेशात्त्वदाप्रापिते ज्ञानसुखायन्यात्मकमात्मानं पश्यसि तस्मात् तादात्म्यशक्त्यन्तरोगाहपुर -स्कृतसामान्यविशेषात्मकत्वानतिक्रमात् सैद्धार्थीयत्वापत्तिः वस्तुवादित्वात्, एवं शेषवादेष्वपि स्यावाद एवापद्यते बलात् तत्र तत्र तथैव योजितमित्यलं प्रसङ्गिन्याः सङ्ग्थायाः।
एवन्तु गृह्यतां निःस्वभावमिदं सर्वम्, सुप्तोन्मत्तादिवत्, सुप्तमत्तस्थानीया एव हि रक्तद्विष्टमूढाः पाषण्डिनः तदतदाकारप्रकल्पनानुपातिविज्ञानत्वात् तदतत्स्वाभाव्येन विज्ञानकल्पिताकारसुप्तमत्तादिविज्ञानविषयवत्, किमपि किमपीत्या भासात् परमार्थतो नास्ति कश्चिदाकारः शून्यं तैः स्वैराकारैरिदं गृह्यमाणमपि बुद्धया