SearchBrowseAboutContactDonate
Page Preview
Page 386
Loading...
Download File
Download File
Page Text
________________ द्वादशोऽर: नियमनियमनयः ३७५ सामर्थ्यात्, अन्त्यानामपामतिसूक्ष्मत्वान्न स्फुटं ग्रहीतुं शक्यते ऽनुमीयते तु तिरोभूता इत्यार्हतद्रव्यार्थवादं पर्यायार्थाकाई क्षणिकवादः समर्थयति। ___ मा चाधृति कार्षीः ममैवाईतत्वमापतितमनिच्छतोऽपीति, किं तर्हि? विध्यादिभङ्गान्तःपातिनः सर्वेऽन्येऽपि वस्तुवायुगाहाः त्वदुद्वाहतुल्याः, तच्च तद्व्यसनदर्शनादात्मावासकरमिति धृति भावय । येप्याहुः राशिवदिति', एष श्लोक: स्याद्वाद एव नैकान्तार्थत्वात् 'शक्त्यन्तरत्वतादात्म्यान्यानन्यत्वप्रकल्पना । ............ ॥ इति शक्त्यन्तरं नरादिषु प्रत्येकमसत् सेनायां समुदितनरादिचतुरङ्गायां दृष्टं तदात्मना सेना तु प्रत्येकमिति तयोः समुदायिसमुदाययोरेकत्वनानात्वे वादिनाऽङ्गीकृते द्रव्यार्थपर्यायार्थानुपातः कृतो भवति, नरादिसामान्यतादात्म्येऽपि च सेनाऽन्यापि, तत्समुदायमात्रत्वात् तदात्मत्वात् भवनसामान्यस्य रूपरसार्थान्तरत्ववत्, तस्मादेव प्रागेष न्यायस्तद्यथा 'नृरथाश्व................॥' इति। __ तथा शिखरादिभ्यः प्रत्येकमसत्त्वात्तेष्वेव सत्त्वादन्योऽनन्यश्च शिखरी, तथा मरिचादिभ्यः पानकस्यान्यानन्यते वातादिरोगकोपोपशमादिसत्त्वासत्त्वाभ्यां पृथक् समुदाये च, तथाऽऽत्मापि सुखादिसहक्रमभाविपर्यायात्मकत्वादनन्यः, अन्यस्तु प्रत्येकं तेषां विरोध्यविरोधिभेदात्, पानकद्रव्यमानं स्वतत्त्वमपि, तद्वत्सिद्धत्वात्, . मधुररसवत्, न हि तद्वत्सिद्धो रसः रूपादिसहभाविधर्मान्तरसङ्गतिमन्तरेणोपलभ्यतेऽतः स्वतत्त्वः परतत्त्वश्च ।
SR No.022387
Book TitleDwadasharnay Chakram
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherShantinagar Shwetambar Murtipujak Jain Sangh
Publication Year2010
Total Pages416
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy