________________
३७४
द्वादशारनयचक्रे
विघ्नः? यदि हि भावो भूतः कोऽस्योत्तरकालमपि भवने विघ्नः? सदा हि तेन भवता भावेन भवितव्यम्, न न भवितव्यं कदाचित्, 'न चेनैव तथा भवेत्' अथ पुनरेवं नेष्यते अतोऽसावभवनधर्मा ततधाधुनापि नैव भवेत्।
__ अस्ति भवने विघ्नः स्वयं विनाशो वा कः कस्य विनाशहेतुर्वेति निदयौ, वैशेषिको ब्रूयात् घटादीनामश्माद्यभिघातो विनाशहेतुः, अग्निसंयोगः पार्थिवानां रूपादीनामपाश्च तत्सानिध्ये विनाशोऽसानिध्येऽवस्थानमिति, बौद्धोऽपि 'जुहुक्खित्तं मिलेडम्मि' इति तन्न 'साध्ये विनाशतत्त्वे स्त:' अन्यतरासिद्धे कथं निर्धार्यमयं हेतुरेवेति, अस्ति विशेषहेतुस्तस्मिन् सति पश्चादग्रहणादिति।
इदमसंज्ञापकं स्वयं विनाशेऽपि हि भावेऽकृतके क्रमनियमप्राप्तवृत्तौ प्राग्दृष्टो घटभावः कपालत्वेनाविर्भवंस्तिरोभवंश्च घटत्वेन न गृह्यते कपालत्वेन गृह्यते, अतः सिद्धयत्येवास्मन्मतेन घटपार्थिवरूपायुदकानां तिरोभूतौ तेन रूपेणानुपलब्धिः, कथं कृत्वा? यथासङ्ग्यनिर्देशा हि मृद्रूपादयः, उभयेऽपि शिवकाख्यां लभन्ते, स्वेन रूपेणाविनष्टाः तत्तत्स्वभावभूतेरेव पिण्डत्वेन लीनाः, कर्तृप्रत्ययवशाच्चोत्पन्नाः स्तूपकत्वेन स्तूपक इत्युच्यन्ते, अभिघातादिप्रत्ययवशाद्वा कपालानीति, सर्वज्ञो हि तथा तथा पश्यति, अतस्तस्य शिवकादेरग्रहणं न स्वयमभावाद्विनाशाद्वा।
पार्थिवा अपि रूपादयः स्वपरापेक्षस्वभावेन भवन्तोऽ ग्निसम्बन्धसामर्थ्येन पूर्वरूपतिरोभावे पुनरन्यथोत्पन्नाः, तथाऽपामप्यर्थान्तरापेक्षानपेक्षस्थितार्थभवनव्याप्तेरल्पतराविभूतिरग्निसम्बन्ध