________________
३७२
द्वादशारनयचक्रे
विनाशोऽकर्तृकः केनोत्पादो निवत्य॑तेत्ययुक्त एव भावः । तस्मात्स एव न भवतीति मध्येऽप्यभावः।
अपि च तण्डुलानामोदन इत्यत्रोदनस्य स्वकालसमवस्थायिद्रव्यवृत्तविकारान्तरगतेः सम्भवेदियं गतिः, त्वन्मते तु तद्वैधात् तदासावसनिहित एव भावः कथं व्येतीत्युच्यते? यदि यदा सन्निहितस्तदैव व्येति नैव तर्हृत्पद्यते, अथोत्पद्यते न तर्हि व्येति, उत्पादव्यययोर्विप्रतिषेधात् कुत एव तत्?
एवश्चोत्तरोऽप्यस्य विनाशक्षणो नैव भवति, यतः तदपेक्षः क्षणोऽस्यास्तीति क्षणिक उच्यते, अनुत्पन्नत्वात् खपुष्पवत्, आकाशवद्वा, द्वयाभावे तु यदि सदेव चेदस्त्विष्यते तत आहेतमताभिमतस्थितद्रव्यार्थसद्भावे क्षणे क्षणे पर्यायनयसद्भावे चोत्पादविनाशाभ्युपगमात् क्षणिकशब्दार्थवत्तोपपद्यते नान्यथेति । एवमेव च 'जातिरेव हीति' श्लोक इत्थं पठितव्यः, तद्यथा - 'जातिरेव हि भावानामनाशे हेतुरिष्यते' इति । यस्मात् स्थित एवार्थ उत्पद्यते नास्थितः तस्मादुत्पत्तिरेवावस्थाने कारणं जातमवस्थितश्चेत्यतो न ध्वस्तमिति।
स्थितच जायते च न च ध्वंसते घटः द्रव्यात्मा, न तावदस्थितः, अनुत्पादविनाशात्मकत्वात्, यदुत्पादात्मकं विनाशात्मकञ्च न भवति तन्नास्थितमेव, असंस्कृतत्रयवत्, तद्धि बोध्यत्वाद्रूपादिवत् सत्, सच्च नास्थितञ्च, उत्पादविनाशमात्रात्मकतायान्तु नि जापां तयोरभावः, तस्यैव चासौ भाव इत्येतदपि न किञ्चित्, स्थितमेवोत्पद्यते विनश्यति चेत्यादि भावितवदिति । योऽपि श्लोकः