SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ प्रथमः विधिभङ्गारः २७ रूपानन्तरत्वात् रूपस्वरूपवत्, तस्मादैक्ये सति समवायग्रहणे हि प्रत्येकैकनीलग्रहणं स्यात्, एकनीलवालग्रहणेऽपि च सर्वनीलकेशपाशग्रहणम्, एकनीलात्मकत्वात् समुदायस्य। ततश्च यथात्र सन्द्रावात्सर्वनीलैकता तथा रूपादिपञ्चकस्यापि सन्द्रावादेकता गुणत्वात् नीलैकत्ववत्, ततश्च गुणसन्द्रावद्रव्यत्वात् सर्वथा पृथिव्यादीनाम्, तेषामपि रूपादिपरमार्थत्वादिति सर्वसर्वात्मकत्वं विशेषैकान्तवादिनोऽप्यविशेषैकान्तवादिन इव । गुणसन्द्रावात्मकद्रव्यत्वापादनाय तु सञ्चयस्य सन्द्रावातिशयो मायेयीयः, सञ्चितानामसञ्चितानाञ्च प्रागनभ्युपगमात्, अवश्यश्चैतदेवमभ्युपगतम्, आगम एवोक्तं हि वः 'सङ्घाता एव सङ्घातान् स्पृशन्ति सावयवत्वादिति, तत्र परस्पर्शनिरूपणे सर्वात्मस्पर्शनास्पर्शनयोर्दोषापादनेन निर्धारितं साताः सङ्घातान् देशेन स्पृशन्ति देशमेवेति, सोऽपि स्पर्शो न सञ्चयादृते सम्भवति। ___ एवं च नीलं विजानातीति वाक्यं संवदत्यर्थतः केनार्थेन कतमत्? यत्तूक्तं नो तु नीलमित्येतदेवैकं संवदति नान्यत् किञ्चित्, कदाचिदपि नीलपरमाण्वाकारनियतज्ञानोत्पत्तिहेतुत्वाभावात् समुदायस्य चानीलत्वात्। भेदतत्त्वाभिमतप्रत्येकसमुदायपरिग्रहेऽपि न नीलं विजानाति, तेषामितरेतरनीलत्वेनानीलत्वात्, जात्याकारादिना अतद्रूपत्वातू परमार्थसन्नीलपरमाणुरेव।
SR No.022387
Book TitleDwadasharnay Chakram
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherShantinagar Shwetambar Murtipujak Jain Sangh
Publication Year2010
Total Pages416
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy