SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ २८ द्वादशारनयचक्रे ते च परमाणवोऽत्यन्तमितरेतरव्यावृत्तासाधारणरूपाः कस्मात्? द्रव्यसद्रूपत्वात्, द्रव्यसतो ह्येतद्रूपं यदन्यनिरपेक्षविविक्तस्वरूपत्वम्, तत्र यथा तद्रसरूपेण गन्धरूपेण वा नास्ति द्रव्यसद्रूपत्वात्तथा नीलस्वरूपेणापि नास्ति तदपि च द्रव्यसद्रूपमाण्यायभावे रथाभाववन्नीलान्तररूपाभाववद्वा तदभावेऽपि न भवत्येव । नीलत्वशून्यत्वाद्वा नीलान्तरनीलवत्तदपि परनीलं तद्वदनीलमतः कतरत्तन्नीलं स्याद्यद्विज्ञायेत चक्षुषा चक्षुर्विज्ञानसमङ्गिनेति न नीलं विजानाति चक्षुर्विज्ञानसमगी। अत एव चक्षुर्विज्ञानसमङ्गी सञ्चितालम्बन इत्यादिप्रत्यक्षविधेर्वाक्यस्यार्थोऽयमापद्यते नो तु नीलमिति, तस्य सञ्चयस्यासतश्चक्षुषा ग्रहणात् नो तु नीलमेवं भवति परमार्थसत्परमाणुनीलत्वात्। भावना त्वस्यानर्थेऽर्थसंज्ञी न च कदाचित्क्वचिदप्यर्थे धर्मसंज्ञीति, अनर्थे - संवृति सति समुदाये द्रव्यसन्नीलसंज्ञी, न त्वर्थेऽर्थसंज्ञी, न त्वर्थ एव - द्रव्यसति परमाणुनील एवार्थसंज्ञी भवति तस्यातीन्द्रियत्वात् । यद्येवमर्थे धर्मसंझी भवतु नेत्युच्यते न च कदाचित् कचिदप्यर्थे धर्मसंझी, अतीन्द्रियत्वादत्यन्तं सर्वकालं परमाणुनीलादेरग्राह्यत्वात्, ततोऽर्थादेतदप्यापनमनर्थ एव धर्मसंज्ञीति, अनर्थ एव - असति नामादिधर्मसंयपि, सञ्चयस्य नामादी नाश्च कल्पनात्मकत्वादनर्थे – यावत्कल्पनात्मके सञ्चयेऽनर्थकल्पनात्मकशब्दादिधर्मसंज्ञी, कल्पनापोहासम्भवात्, तस्मात्अस्मदुक्तैषा भावना घटते।
SR No.022387
Book TitleDwadasharnay Chakram
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherShantinagar Shwetambar Murtipujak Jain Sangh
Publication Year2010
Total Pages416
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy