SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ द्वादशारनयचक्रे __अतन्मात्रत्वे संवृतिसत्त्वात्सञ्चयस्यारूपत्वं खरविषाणवदित्यचक्षुर्विषयो रूपम्, ततो रूपस्याग्राहकत्वाच्चक्षुरचक्षुः श्रोत्रवत्, अथासश्चितमेव परमाणुनीलरूपमिष्टं तथाप्यतीन्द्रियत्वादचक्षुर्विषयो रूपमित्युभयथापि रूपाग्राहित्वाद्धटादिवच्चक्षुनैव चक्षुः स्यात्। विज्ञानमपि न विज्ञानं स्यात्, अन्यथाऽर्थप्रतिपत्तेरलातचक्रादिज्ञानवत्, न च चक्षुर्विज्ञानं समङ्गति चक्षुर्विज्ञानस्य रूपादन्यत्रासम्भवात्, न वा तत्सन्तानोऽन्यत्र सम्भवति, सञ्चयापेक्षो व्यभिचारोऽस्त्यतो विशेष्यत इति चेन्न, न हि सञ्चयो रूपमरूपत्वाञ्चक्षुर्विज्ञानसङ्गत्यभावः । यदपि च तद्रूपं रूप्यत इति तद्विषयं तदेकगमनं चक्षुर्विज्ञानस्येति, तदपि नास्ति, अविषयत्वादन्येन्द्रियविषयवत्, सञ्चयविषयमपि चक्षुर्विज्ञानस्य समङ्गनं न, संवृतिसत्त्वात् खपुष्पवत्। नीलविज्ञानसम्बन्धी न भवति तत्सन्तानः, तदाकारज्ञानोत्पत्तिहेत्वभावात्, अदग्धस्य दाहाज्ञानवत्। नीलञ्च सञ्चयञ्च प्रत्येकसमुदितकारणत्वाद्विज्ञास्यतीति चेन्न युगपज्ज्ञानासम्भवात्। यद्यपि स्यात्तयोरेकज्ञानत्वादेकज्ञेयत्वं दाहानुभववत्, तस्मिन्नितरेतरत्वे सर्वसर्वात्मवादिता, समुदायानर्थान्तरत्वाद्रूपं समुदाय एव, समुदायस्वरूपवत्, समुदायो वा रूपमेव,
SR No.022387
Book TitleDwadasharnay Chakram
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherShantinagar Shwetambar Murtipujak Jain Sangh
Publication Year2010
Total Pages416
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy