________________
प्रथम: विधिभङ्गारः
निरूपणात्तस्य, प्रतिपरमाणु प्रतिभिन्नानि स्वानि तत्त्वानि, तथा तेषां नीलरूपाण्यप्यनेकरूपाण्येव, तेषाञ्च यथासमयमेकतत्त्वैकरूपाध्यारोपादर्थान्तरनिरूपणम्, स चाध्यारोपी रूपान्तरसामान्यरूपविषयत्वात्, तदपि सामान्यं तदतद्विषयवृत्तत्वात् ।
२५
ततश्चात्र प्रत्यक्षेऽन्यस्यानपोहादनुमाने त्वपोहात्प्रत्यक्षमविविक्तविषयमतोऽनुमानात्तत् पापीयः, सङ्कीर्णतरविषयत्वान्नान्यनुमा नवदेतत्, अपोह्यार्थापोहशक्तिशून्यत्वात् ।
प्रज्ञप्तिपरमार्थस्थितसञ्चयपरमाणुपरिग्रहात्मकत्वात्तदतद्विषयवृत्तता, सा च सर्वथा साधारणार्थत्वादिसर्वेष्वेतेषु हेतुषु, ततो मूलहेतुरेतैः साधितस्तस्मान्न तत्प्रत्यक्षं नानुमानवदसङ्कीर्णस्वविषयम् ।
इतश्व तज्ज्ञानमप्रत्यक्षमप्रत्ययप्रत्ययात्मकत्वाच्छब्दा श्रावणत्व प्रत्ययवत् ।
अनुमानज्ञानमपि तन्न प्रतिपूर्यते सम्बद्धगृहीतस्यान्यथा प्रतिपत्तेः, यथा विरुद्धादिज्ञानम् ।
'अथवा तिष्ठतु तावत् स्वलक्षणमात्रविषयप्रत्यक्षत्वस्य प्रत्यक्षविधिविधानाभ्युपगम विरोध इति, इह तु चक्षुर्विज्ञानसमङ्गीत्येतदेव तु न घटते ।
एवं ते सञ्चयस्य ग्रहणे तत्प्रत्यक्षत्वाद्रूपमात्रत्वात् सञ्चितालम्बनकल्पनावैय्यर्थ्यम् ।