________________
२४
द्वादशारनयचक्रे
तस्मान प्रत्यक्षं ज्ञापकधूमाद्यपेक्षाग्निज्ञानवत्, वैधपेण दाहानुभवनवत्, प्रत्यक्षत्वाव्यवहितप्रतिपत्त्यात्मकत्वात् प्रत्यक्षस्य, तथा तस्य स्वलक्षणविषयत्वादनध्यारोपात्मकत्वादिति यावत्।
कारकतापि सञ्चयस्य नैवास्ति परमार्थतोऽसत्त्वात्, अलातचक्रवत्।
इतश्च सश्चयस्याकारकता प्रत्यवयवव्यवस्थानमात्रत्वात्।
लोकवत्तु सञ्चयसत्त्वे व्यपदेशोऽस्त्येवेति गृह्यताम्, ततवाव्यपदेश्यो विषयः प्रत्यक्षस्य, प्रत्यक्षं वाऽव्यपदेश्यमित्युभयमनृतम्, विशिष्टोऽपदेशो व्यपदेशः, विशिष्टोऽन्य इत्यर्थः, ग्राह्यादन्यः सञ्चयस्तद्वयपदेशेन व्यपदेश्यं प्रमेयं तदनुमेयं प्राप्नोति, व्यपदेशव्यपदेश्यत्वान्न प्रत्यक्षं धूमानुमिताग्निवत् यथा धूमेन व्यपदेशेन साधितोऽग्निरनुमेयोऽप्रत्यक्षश्च तथा नीलं रूपम्।
सर्वथा तत्तेन व्यपदेश्यं तदविनाभावात्तस्य, कारकतायामकारकतायां वा न कश्चिद्विशेषोऽर्थान्तरनिमित्तादेव पितृधूमादिवत्, ततस्तुल्ये व्यपदेश्यत्वहेतौ व्यपदेश्यनिरोधकोऽयमनर्थको विचारः कारको ज्ञापक इति, एवं तावदर्थतो व्यपदेश्यमेव।।
यदपीष्टमभिधानतो न व्यपदेश्यं तन्नीलादिपरमाणुरूपं परमाणुसमूहाभेदादेकं वेत्येते द्वे अपि नैव स्तः, अनुमिताग्निवद्बहुविषयत्वात्, तथा ज्ञानमपि।
तद्धि नीलरूपनिरूपणमर्थव्यपदेशेन शब्दव्यपदेशेन वा दृष्टं स च विकल्प एवातः कल्पनापोढमिति दुष्टं लक्षणं ज्ञानार्थयोरध्यारोपाच