________________
प्रथमः विधिभङ्गारः
मा मंस्थाः प्रोक्तकल्पनात्मकत्वादिहेत्वसिद्धिरिति, उक्तं हि वोऽभिधर्म एव सञ्चितालम्बनाः पञ्च विज्ञानकाया इति, रूपादिपरमाणोर्बेकस्यासश्चितस्यालम्बनस्य घटादिषु नीलादिषु प्रत्यक्षाभिमतेषु संवृतिसत्स्वभावात् सञ्चिताणुघटनीलाद्याकार एव गृह्यते चक्षुरादिभिः, चक्षुरादिविज्ञानानां रूपादिपरमाणुसङ्घात एवालम्बनम्, ततः प्रत्येकमालम्बनपरमाणूनां परमार्थसतां भवत्सिद्धान्तेनैवाविषयता।
तत्र प्रतिविविक्तरूपान्तराविविक्तस्वतत्त्वे रूपसङ्घाते इन्द्रियसनिकृष्टे आलम्बनविपरीता प्रतिपत्तिरव्यपदेश्यैकात्मकनीलरूपविषयाऽभिमता।
तद्व्याख्यानार्थं भवतां अभिधर्मपिटके यथोच्यते नीलं विजानाति नो तु नीलमिति । ननु हेत्वपदेशव्यपदेश्यैव सा, नच शब्दाभिधेयमेव व्यपदेश्यम्, किं तर्हि? यदर्थान्तरेणाधिगम्यते तद्व्यपदेश्यम्, तथा चोक्तं सञ्चितालम्बनाः पञ्चविज्ञानकाया इति न सञ्चयालम्बना इति, धूमेनाग्निरिवैतदपि चक्षुरादिविज्ञानं व्यपदेश्य ततोऽन्यत् परमाणुभ्यः परमार्थसद्भयः कल्पितमेकं सामान्यं न साक्षादिन्द्रियैर्गृह्यते, व्यवहितमेवार्थान्तरैस्तद्वारेण गृह्यते।
ननु च सञ्चयस्य कारकहेतुत्वेनापदेशः प्रत्यक्षप्रतिपत्तेः, न धूमवज्ज्ञापकहेत्वपदेशतयाऽग्नेरिवार्थान्तरस्यैकरूपत्वस्य।
नन्विदमस्यैवार्थस्य प्रदर्शनार्थं प्रस्तुतमस्माभिर्यदीदं प्रत्यक्षं स्यात् कारकादेव, सञ्चयाख्यात् संवृतिसतो न स्यात्, भवति तु