________________
२२
द्वादशारनयचक्रे
भिधानगोचरातीतं प्रत्यात्मसंवेद्यत्वात् प्रत्यक्षमक्षमक्षं प्रति वृत्तेः पञ्चेन्द्रियजम्।
चक्षुर्विज्ञानसमगी नीलं विजानाति नो तु नीलमित्यभिधर्मागमोऽपि, प्रकरणपदेऽप्येनमेवार्थं भावनयाऽनया विशेषयत्यर्थेऽर्थसंज्ञी न त्वर्थे धर्मसंज्ञीति,
एवमभिधर्मेऽप्युक्तं धर्मो नामोच्यते नामकायः पदकायो व्यञ्जनकाय इति, एवं तावत् कल्पितमेव भवत्सिद्धान्ते, किं सम्प्रधारणया?
कल्पितमपि त्विदमफलमलौकिकत्वात् स्ववचनव्यपेक्षाक्षेपदुस्तरविरोधपरिहारं हि त्वदुक्तिवदेवेदमप्रत्यक्षं कल्पनात्मकत्वात्।
न त्विदमसिद्धं निरूपणविकल्पात्मकत्वात्, घटत्वादिज्ञानवत्, आलम्बनविपरीतप्रतिपत्त्यात्मकत्वात्, यथाऽप्रतिपत्तिः।
__ स्यान्मतं द्रव्यसतामेवाणूनां नीलपीताद्याकारत्वान्न विपरीता प्रतिपत्तिरित्येतच्चायुक्तं, आकारस्याध्यारोपात्मकत्वात् माणवके सिंहत्वाध्यारोपवत् । सदाऽध्यारोपित इति कुतो गम्यते? सामान्य रूपविषयत्वात्, तत्सामान्यञ्च कारीषतौषतार्णपार्णादिविशेषनाश्रिताग्नित्ववत् । तदप्यसिद्धमिति चेत्, सिद्धमेव तदतद्विषयवृत्तित्वात्, तैमिरिककेशोण्डूकादिज्ञानवत्।
सर्वथा साधारणार्थत्वादेर्हेतुपारम्पर्येण कल्पनात्मकत्वसिद्धेः । एकैकस्माद्वा हेतोप्रत्यक्षमिदं कल्पनापोढलक्षणलक्षितं ज्ञानमनुमानादिज्ञानवत्।