________________
प्रथम: विधिभङ्गारः
२१
उन्मत्त इति च दृष्टान्तो लौकिकस्तमभ्युपगम्य लोकः प्रमाणीकृत एव, तन्निराचिकीर्षव एवोन्मत्ततराः ।
भेदवदभेदपदार्थोपादानाच्च न तथेति पुनर्नवोऽभ्युपगम
विरोधः ।
अथ प्रतिज्ञैवाभ्युपगमस्ततो लोकाप्रामाण्यात्, अविशेषादिष्वसतः पक्षादेरुपादानाल्लोकाभ्युपगमाल्लोकाप्रामाण्यं न सिद्ध्यतीति ।
एवं शास्त्रव्यवहारो लोकदर्शनमन्तरेण न सिद्ध्यति, लोकवदेव चार्थ इति व्यवस्थाप्य शब्दप्रयोगात् ।
तथा सत्यत्वसिद्धे शब्दार्थे ततः पुनर्न यथालोकग्राहं वस्त्विति विरुद्धयेत ।
लोकविरोधः प्रस्तुत एव, तदविरोधेऽप्रवृत्तेः ।
लोकाप्रामाण्ये वा शास्त्रकाराणां सर्वत्र पदे वाक्ये प्रत्यक्षानुमानविरोधावुपस्थितावेव, तत्स्थत्वात्तयोः।
4.
कथं प्रमाण ज्येष्ठं प्रत्यक्षमप्रमाणीक्रियेतेति, त वः सम्प्रचारमिमं प्रयच्छामि, शास्त्रवदेव प्रत्यक्षमपि लौकिकप्रत्यक्षवि - लक्षणं तथानुमानञ्चास्तु तयोरप्यलौकिकत्वकल्पनार्थं सामान्यविशेषैकान्तसंवादि घटादिकल्पनापोढं प्रत्यक्षं कल्प्यम् ।
नामजातिगुणक्रियाद्रव्यस्वरूपापन्नवस्त्वन्तरनिरूपणानुस्मरणं ततोऽपोढमक्षाधिपत्येनोत्पन्नमसाधारणार्थविषयम
विकल्पना