________________
द्वादशारनयचक्रे
दृष्टान्तस्य प्रत्यक्षत्वाद् दृष्टान्ताभ्युपगमात् प्रत्यक्षप्रमाणीकरणमापन्नं तस्माच्च लोकत्वं दृष्टान्तसंवादित्वप्रतिपादनार्थत्वाच्छास्त्रार्थस्य, ततश्च प्रतिज्ञातव्याघातः।
शास्त्रत्वादेवालोकत्वमिति चेन्न, लोकाश्रयत्वात्तेषां शास्त्राणाम्।
तानि हि शास्त्राणि सामान्यविशेषकारणकार्यमात्राणां सामान्यमात्रस्याग्नेः कारणमात्रस्य स्पर्शशौक्ल्यादेदृष्टस्य विशेषमात्रस्यार्चिष्षु नवनवोत्पादविनाशरूपस्य दृष्टस्य सर्वत्राध्यारोपेण प्रणीतानि।
अन्यत्र दृष्टस्याध्यारोपाद्धटतत्त्ववदलौकिकत्वमिति चेन्न तथा व्यामोहस्य मृगतृष्णिकावदलौकिकत्वात्, मृगतृष्णिकावदेव तस्याप्रामाण्यप्रसङ्गात्।
तथा च तत्र प्रतिज्ञादीनामप्यनुपपत्तिः यदि यथा लोकेन गृह्यते न तथा वस्तु।
तत्र प्रतिज्ञा तावद्यथोक्ता गृह्यमाणाऽविशेषादेर्न तथा स्यात् । ततवांशे प्रत्यक्षविरोधः स्ववचनविरोधोऽभ्युपगमविरोधः, स्वोक्तविपर्ययरूपाभ्युपगमात्।
__ अथ तथाऽभ्युपगम्यते न तर्हि लोकगृहीतमन्यथेत्यापन्नम्, लोकत्वाच्च प्रतिज्ञातव्याघातस्तदवस्थः ।
किञ्चित्तथा किश्चिदन्यथा, उन्मत्तप्रतिपत्तिवदिति चेदेवं तर्हि साक्षाल्लोकपक्षापत्त्याऽभ्युपगमविरोधः, किञ्चिद्गृहणात्तथाग्रहणात् अन्यथाग्रहणाच्च।