________________
प्रथमः विधिभङ्गारः
हरिणादिस्वरूपवितथोक्तौ प्रसिद्धिविरुद्धप्रतिज्ञत्वादेवातथात्वमिति चेन, उक्तवत्तुल्यत्वात्।
लोकस्य चाप्रामाणीकृतत्वात्तथा कुतः प्रसिद्धिविरोधः कथं वा तत्प्रसिद्धिः? एवं वचनेऽभ्युपगमविरोधात्।
लोमशालोमैक्ये सपक्षासपक्षावृत्तिवृत्त्योरतर्क इति चेन्न दृष्टान्तस्य प्रत्यक्षप्रसिद्धिविषयत्वादसिद्धेर्लोकस्याप्रमाणीकृतत्वात् कुतस्तर्कातर्कत्वविचारः।
इहैव भवान् यं दोषमापादयति स तव, अप्रमाणीकृतत्वात् लोकस्य, सपक्षासपक्षवृत्त्यवृत्त्योरसत्त्वापत्तेः।
तत्र तावदविशेषैकान्ते कुतोऽन्यपक्षोऽसपक्षो व्यावृत्तिर्वा, अन्यस्याभावादविशेषात्, तद्वत्समानस्याभावात्।
आविर्भावतिरोभावयोरभूत्वा भावाद्भूत्वा चाभावादनित्यत्वकृतकत्वे स्त एवेति चेन्न तत्त्व एव तथाभिव्यक्तेः।
विशेषैकान्ते कुतस्तत्पक्षः सपक्षस्तत्सत्त्वं वा, देशतः परमाणुशो रूपादिशो विज्ञानमात्रशोऽनुपाख्यत्वशश्च भेदात्, कालतो ऽत्यन्तपरमनिरुद्धक्षणादूद्धर्वमनवस्थानाच्च कुतस्तत्पक्षः, धर्मधर्मिणोर्विशेषणविशेष्ययोश्चासम्भवात् कुतः सपक्षः,? सत्त्वं वा तत्र तदभावात्, तथाऽस्थितेः।
__ तदुभयानेकत्वैकान्ते नोभयमिति साध्यसाधनधर्मधर्मिण एव कुतः? तथाऽपूर्वत्वात्।