________________
द्वादशारनयचक्रे
हेतोर्हरिणवत् । यूका पक्षिणी षट्पदवत्त्वात्, भ्रमरवत्, भ्रमरोऽपक्षः पदवत्त्वात् यूकावत्, तथा पृथिव्यवसुधा, पदार्थत्वादाकाशवदित्यसाधारणधर्मसम्बन्धेनापि रूपरसगन्धस्पर्शधर्मसम्बन्धिनी न भवति तत एव तद्वत्, तथा बौद्धमतेऽपि पृथिवी न भूः महाभूतत्वाद्रूपवत्त्वाच्च जलवत्, न कर्कटधारणधर्मा तत एव तद्वत्, एवं शेषपदार्थभेदेष्वपि ।
१८
महदहङ्कारतन्मात्रेन्द्रियशब्दादिष्वात्मनि च द्रव्यगुणकर्मसामान्यविशेषसमवायेषु सप्रभेदेषु नामरूपयोः संज्ञाविज्ञानवेदनासंस्कारेषु क्षित्युदकज्वलनपवनेषु चक्षुरादिषु रूपादिषु च दृष्टान्तभेदात् ते ते धर्मा निराकार्याः ।
शास्त्रनिरूपणविपरीतमप्रमाणं न हरिणस्वरूपादि, निरपबादत्वात्, न, सर्वस्यैवापोदितत्वात्, देशकालकृतविशेषैकान्तिनः प्रतिप्रदेशं प्रतिसमयञ्च सर्वं विशिष्टमेव न समानं किञ्चिदतो यावदणुशो रूपादिशो विज्ञानमात्रशो निरुपाख्यत्वशश्च भेदात्कुतो हरिणः कुतस्तस्य लोमाद्यवतिष्ठते?
तथा सर्वसर्वात्मकैकान्ते मण्डूकोऽपि लोमश एव, स्थावरस्य जङ्गमताङ्गतस्य, स्थावरस्य स्थावरतां, जङ्गमस्य स्थावरतां जङ्गमस्य जङ्गमतां गतस्येति वचनात् ।
अर्थानर्थविषयसामान्यविशेषनानात्वैकान्तेऽतदात्मकत्वात्
कुतोऽण्डहरिणमण्डूककारणकार्यदरणिसंयोगगुणोत्प्लवनकर्मभवनव्यावृत्तितथासमवायाः, सर्वथा तत्त्ववृत्तिव्यतीतत्वात् खपुष्पवत्, अन्यथा बालकुमारवत् ।